SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीय: खण्ड: ॥३६८॥ शेषार्णा - द्वित्रिचतुरिन्द्रयाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां चाहारो लोग्नि- लोमविषयः प्रक्षेपतश्च भवति । उभयरूपस्याप्याहारस्य तेषां सम्भवात् ॥ ८२ ॥ अथ देवानामाहारविषयं विशेषमाह – 'ओये' त्यादि, सर्वेऽपि भवनपत्यादयः सुरगणा अपर्याप्तावस्थायामोज आहाराः । पर्याप्तावस्थायां मनोमक्षिणो-मनसा चिन्तितोपनतान् सकलेन्द्रियाह्लादकrangers agraन भक्षयन्ति वै क्रियशरीरेणात्मसात्कुर्वतीत्येवंशीला मनोमक्षिणः । इयमंत्र भावना- यथा शीतपुद्गलाः शीतयोनिकस्य 'प्राणिनः सुखित्वायोपकल्पन्ते, उष्णाः पुद्गला वा उष्णयोनिकस्य, तथा देवैरपि मनसाऽभ्यवाहियमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते । तत आहारविषयाभिलाषनिवृत्तिर्भवतीति । शेषा:- सुरव्यतिरिक्ता जीवा नैरयिकादयोऽपर्याप्तावस्थायामोज आहाराः । पर्याप्तास्तु लोमाहारा ज्ञातव्याः न पुनर्मनोभक्षिणः । मनोभक्षणलक्षणो ह्याहारः स उच्यते ये तथाविधशक्तिवान्मनसा स्वशरीरपुष्टिजनका : पुद्गला अभ्यवह्रियन्ते यदभ्यवहरणानन्तरं च तृप्तिपूर्वः परमसन्तोष उपजायते । न चैतन्नैरयिकादीनामस्ति प्रतिकूलकर्मोदयत्रशतस्तेषां तथारूपशक्त्यभावात् ॥ ८३॥ पुनस्त्रैव विशेषमाह - 'अपज्जे' त्यादि, आभोगनमाभोगः - आलोचनमभिसन्धिरित्यर्थः । आभोगेन निर्वर्तितः- उत्पादित आभोगनिर्वर्तितः आहारयामीतीच्छापूर्व निर्मापित इतियावत् । तद्विपरीतो १] प्राणिनः सुखिनः सुखिवि ।। २ पुनमेनोमिलाषिणः-खं. वि. सि ॥ ॥ ३ यदभ्यवहरणादनन्तरं - खं २०५ जीवा माहार गाथा ११८ प्र. अ ३४३ ॥३६
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy