________________
सारोद्वारे सटीके द्वितीयः
२०३द्वारे देवानामागतिः
गाथा
११७७८
॥३६३॥
प्र. आ.
इदानीं 'जत्तो आगई एसिं' ति व्युत्तरद्विशततमं द्वारमाह--
परिणामविसुद्धीए देवियकम्मबंधजोगाए पंचिंदिया उ गच्छे नरतिरिया सेसपडिसेहो ॥७७|| आईसाणा कप्पा उववाओ होह देवदेवीणं ।
सत्तो परंतु नियमा देवीणं नथि उववाओ॥७८॥ [ बृहत्सङ्ग्रहणी गा. १५७, १८४]
'परिणाम.' गाहा, 'परिणमनं परिणामो-मानसिको व्यापारविशेषः । स च द्विधा-विशुद्धोऽविशुद्धश्च । तत्र यो विशुद्रः स देवमतिकारणमिति तत्प्रतिपादनार्थ विशुद्धिग्रहणम् , परिणामस्य विशुद्धिः परिणामविशुद्धिः, तया , प्रशस्तेन मानसव्यापारणेत्यर्थः । एतेन शुभाशुभगत्यवाप्तौ मनोव्यापारस्यैव प्राधान्यमाह । सापि च परिणामविशुद्धिः काऽप्युत्कर्ष प्राप्ता मुक्तिपदस्यैव प्रापिका । अतस्तन्निवृत्त्यर्थमाहदेवायुःकर्मबन्धनयोग्यया हेतुभूतया, पञ्चेन्द्रियाः, तुशब्द एक्कारार्थः, पञ्चेन्द्रिया एव नैकेन्द्रियद्वीन्द्रियादय इत्यर्थः, नरा-मनुष्यास्तिर्यश्चश्च देवेषु मध्ये गच्छन्ति । शेषाणां तु सुरनारकाणां देवगतिगमने प्रतिषेधो ज्ञातव्यः । न खलु देवा नारका वा स्वायुःक्षयेऽनन्तरं देवत्वेनोत्पद्यन्त इति ।।७७ ॥
___ सम्प्रति प्रसंगतो देवदेवीनामुत्पत्तिस्थानमाह--'आईसाणे त्यादि, आ 'ईशानाव-ईशानकल्पममिव्याप्य । किमुक्तं भवति १-भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु देवानां देवीना चोपपातोजन्म भवति । तत:-ईशानात्परमृर्व सनत्कुमारादिषु देवीनामुपपातो नास्ति किन्तु देवानामेव केवलानाम् ।
१ तुला-बृहत्सं. वृत्तिः प. १ तः ॥ २ तुळा बृहत्संग्रहणीवृत्तिः प. ७८ ॥