________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय
खण्ड:
॥३६०॥
जघन्यतः पुनः सर्वेष्वपि सनत्कुमारादिष्वनुत्तरान्तेषु उपपातविरहकाल एकः समय इति ॥ ७१ ॥ १६६ ॥ सम्प्रति 'उणा विरहो' ति द्विशततमं द्वारमाह
देवेसु 1
reateविरहकालो एसो जह वण्णिओ य उणावि एवं सव्वेसिं होइ विन्नेया || ७२ ।। [ बृहत्सङ्ग्रहणी गा. १५५ ]
'उववाय' गाहा, उपपतनमुपपातः - तदन्यगतिकानां सत्त्वानां देवत्वेनोत्पादः, तस्य विरहकाल:अन्तरकालः, एप:- चतुर्विशतिमुहूतादिक उत्कृष्टो जघन्यतत्र यथा देवेषु 'प्रागेववर्णितः, एवम् अनेनैव प्रकारेण सर्वेषां देवानामुद्वर्तनाऽपि विज्ञेया । तद्यथा-भवनवासिव्यन्तरज्योतिष्कसौधर्मेशान देवानामुत्कृष्ट उद्वर्तनाविरहकालश्वतुर्विंशतिर्मुहूर्ताः । सनत्कुमारे नव दिनानि विंशतिश्च मुहूर्ता माहेन्द्रे द्वादश दिनानि दश च मुहूर्ताः ब्रह्मलोके साध द्वाविंशतिर्दिनाः; लान्तके पञ्चचत्वारिंशदिनाः; शुक्रे अशीतिर्दिनाः, सहस्रारे दिनशतम्, आनत - प्राणतयोः सङ्ख्येया मासाः आरणाऽच्युतयोः सङ्ख्येयानि वर्षाणि, अधस्तनेषु त्रिषु ग्रैवेयकेषु सङ्ख्येयानि वर्षशतानि मध्यमेषु त्रिषु सङ्ख्येयानि वर्षसहस्राणि उपरितनेषु * त्रिषु सङ्ख्येयानि वर्षलक्षाणि विजयादिषु चतुर्षु पल्योपमा सङ्ख्येयभागः, सर्वार्थसिद्धे 'पुनः पल्यो - पमसख्येयभागः । 'जघन्यः पुनः सर्वेषामप्युद्वर्तनाविरहकाल एकः समय इति ॥ ७२ ॥ २०० ॥
१ प्रागुपध• मु. ॥ २ तुला - बृहत्सङ्ग्रहणीवृत्तिः प. ७१ ॥ ३ त्रिषु सि. वि. नास्ति ॥ ४ च पुनः पल्यो० मु. ॥ ५ जघन्यतः- मु. ॥
२०० द्वारे
देवोद्र
तैना
विरहः
गाथा
११७२
प्र. आ.
३३९
॥३६०॥