________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
खण्ड:
।।३५९।।
आनते प्राणते च प्रत्येकमुत्कर्षत उपपातविरहकालः सङ्ख्येया मासाः । केवलमानतापेक्षया प्राणते प्रभूता वेदितव्याः ते च वर्षादर्वागेव । तथा आरणे अच्युते च प्रत्येकं सख्येयानि वर्षाणि, नवरमत्राप्यारणापेक्षयाऽच्युते प्रभूतानि तानि च वर्षशतादवगेव, अतः परं ग्रैवेयकेषूत्कर्षत उपपातविरहकालं वक्ष्ये ।। ६९ ।। प्रतिज्ञातमेवाह 'हिडिमे' त्यादि, त्रिष्वपि 'अधस्तनादिषु ग्रैवेयकत्रिकेषु यथासङ्ख्येन सङ्ख्येयानि वर्षशतानि वर्षसहस्राणि वर्षलक्षणाणि च विज्ञेयानि, तथाहि अधस्तनग्रैवेयकत्रिके उत्कृष्ट उपपतिविरहकाला सपा वर्षशतानि तानि वर्षादारतः । मध्यमग्रैवेयकत्रिके सङ्ख्येयानि वर्षसह - खाणि । तानि च वर्षादर्वाक् । उपरितनग्रैवेयकत्रि के सख्येयानि वर्षलक्षाणि । तानि च वर्षको था आरतो द्रष्टव्यानि । अन्यथा कोटीग्रहणमेव कुर्यादित्येवं सर्वत्र भावनीयम् । इयं च व्याख्या हरिभद्रसूरिकृतसङ्ग्रहणीटी का नुसारतः, अन्ये तु सामान्येनैव व्याचक्षत इति ॥ ७० ॥
साम्प्रतमनुत्तरविमानेषु उपपातविरहकालमानमाह - 'पलिये त्यादि, विजयादिषु - विजय वैजयन्तजयन्ता ऽपराजितरूपेषु चतुर्षु विमानेषूत्कृष्ट उपपातविरहकालोऽद्धापल्योपमासख्येयभागः । तुशब्दस्यानुक्तसमुच्चयार्थत्वात्सर्वार्थसिद्धे पल्योपमस्य सङ्ख्येयो भागः । तथा च प्रज्ञापना
"सव सिद्धदेवा णं भंते! केवकालं विरहिया उववाएणं पन्नत्ता १, गोषमा ! जहन्नेणं एवं समयं उकोसेणं पलिओ मस्स संखेज्जहभाग " [पद ६ / स. ६०५ ] मिति ।
१ अधस्तनमध्यमो परितनये देयक त्रिकेषु- मु.। अधस्तनासु यथा० सं० वि० ॥ २ यथासङ्ख्यं सं० वं । यथासख्येयानि-सि ।। ३ सम्बद्ध सिद्ध-खं. ॥
१९९ द्वा देवाना
मुत्पत्ति
विरहः
गाथा
११६७
११७१
प्र. आ.
३४०
।।३५९॥।