________________
वचन- रोद्वारे
द्वतीयः
तदुत्कृष्टस्थितिः पुनरष्टादशसागरोपमलक्षणा आनते जघन्या। तदुत्कृष्टस्थितिस्त्वेकोनविंशतिसागरोपमस्वरूपा प्राणते जघन्या । तदुत्कृष्टस्थितिरपि विंशतिसागरोपमात्मिका आरणे जघन्या । तदुत्कृष्टस्थितिस्त्वेकविंशतिसागरोपमस्वरूपा अच्युते जघन्या । तदुत्कृष्टस्थितिस्तु द्वाविंशतिसागरोपमरूपा 'अधस्तनाधस्तनधेयके जघन्या । एवमेककं सागरोपमं वयता तावन्नयं यावदनुत्तरचतुष्के-विजय-वैजयन्तजयन्ता-ऽपराजितरूपे एकत्रिंशत्सागरोपमाणि जघन्या स्थितिः । सर्वार्थसिद्धे पुनर्जधन्या स्थिति स्ति । अजघन्योत्कृष्टायास्त्रयस्त्रिंशत्सागरोपमरूपाया एव स्थितेस्तत्राभिधानादिति ॥ ४५ ॥
सम्प्रति वैमानिकदेवीनां जघन्यामुत्कृष्टां च स्थितिमाह--'सपरी' त्यादि, इह वैमानिक देवीनामुत्पत्तिः सौधर्मेशानयोरेव, ताश्च द्विधा परिगृहीताः-कुलाङ्गना इव, अपरिगहीताश्च-वेश्या इव । तत्र सपरिग्रहाणां-परिगृहीतानामितरासां च-अपरिगहीतानां जघन्या स्थितिः सौधर्मे ईशाने च यथासङ्ख्यं पल्यं-पल्योपमम् , साधिकं च । किमुक्तं भवति ?-सौधर्मे परिगृहीताना देवीनामपरिगृहीतानां च देवीनां जघन्यायुः पल्योपमम् । ईशाने परिगृहीतानामपरिगृहीतानां च देवीनां साधिकं पल्योपममिति ।
तथा सौधर्म परिगृहीतानामपरिगृहीतानां ( ग्रन्धाग्रं १४००० ) चोत्कृष्टमायुर्यथाक्रम सप्त, पञ्चाशच्च पल्योपमानि, इशाने नव, पञ्चपश्चाशच्च । इयमत्र भावना--सौधर्मे परिगृहीतानामुत्कृष्टमायुः सप्त पल्योपमानि, अपरिगृहीतानां पश्चाशत् ईशाने परिगृहीतानामुत्कृष्टमायुर्नव पल्योपमानि; अपरिगृहीतानां च पञ्चपश्चाशदिति ॥४६॥ १६४॥
१ मधस्तनप्रैवे० सि. वि. ॥२ तुला-बृहत्सङमहणीवृत्तिः प. १४ B तः।
१९५द्वारे भवनपत्या| दिनां स्थितिः गाथा ११२८. ११४६
१३४५॥
प्र. आ.
॥३४५॥