________________
प्रवचनसारोद्वारे
सटीके
द्वितीयः
स्वण्ड :
1138811
oयुत्कृष्टा स्थितिः । जघन्या पुनरेतेषु विजयादिषु चतुर्षु एकत्रिंशत्सागरोपमाणि । तथा सर्वार्थसिद्धे त्रयस्त्रित्सागरोपमाण्य जघन्योत्कृष्टा स्थितिरिति ॥ ४४||
अथ वैमानिकदेवानामेव जघन्यां स्थितिमाह - 'पलिय' मित्यादि, इह यथाक्रमं पदसम्बन्धात् सौधर्मे कल्पे एक पल्योपमम् ; ईशाने तदेव किञ्चित्समधिकं जघन्या स्थितिः । तत ऊर्ध्वं सनत्कुमारादिषु ग्रैवेयकानुत्तरविमानावसानेषु अधःकल्पस्थितिः - अधोवर्त्तिनः कल्पस्य या उत्कृष्टा स्थितिः उपयु परिवर्त्तिनि सैव जघन्या स्थितिः । अनेन च क्रमेण तावत्प्रतिपत्तव्यं यावदेकत्रिंशदतराणि । तथाहि यैव सौधर्मे सागरोपमद्वयरूपा उत्कृष्टा स्थितिः सैव तदुपरिवर्तिनि सनत्कुमारे जघन्या । यैव चेशाने सातिरेकसागरोपमद्वयस्वरूपा उत्कृष्टा स्थितिः सैव तदुपरिवर्तिनि माहेन्द्रे जघन्या । सनत्कुमारोत्कुष्टस्थितिस्तु सागरोपमसकलक्षणा तदुपरिवर्तिनि ब्रह्मलोके जघन्या । तथा चोक्तं प्रज्ञापनायाम् - "मलोए कप्पे देवाणं केवइयकालं ठिई पन्नत्ता १
गोयमा ! जहन्नेणं सच सागरोत्र माई" [पद ४ सू. ४१९] ति ।
तस्वार्थ भाष्ये तु - "या माहेन्द्रे परा स्थितिर्विशेपाचिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या भवती" [ ] त्युक्तम् ।
ब्रह्मलोकोत्कृष्ट स्थितिस्तु दशसागरोपमात्मिका लान्तके जघन्या | लान्तकोत्कृष्टस्थितिरपि चतुर्दश सागरोपमरूपा महाशुक्रे जघन्या । तदुत्कृष्टस्थितिस्तु सप्तदशसागरोपमस्वरूपा सहस्रारे जघन्या ।
१ वा.सु ॥
१९४ द्वारे भवनपत्या
दिनां
स्थितिः
गाथा
११२८.
११४६
प्र. आ.
३३५
॥ ३४४॥