SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Sanilioned प्रवचनसारोद्धारे सटीके द्वितीयः ॥३३७॥ वासिना अवान्तरजातिभेदमधिकृत्य दश भेदा भवन्ति । तद्यथा---'असुरा' इति पदैकदेशे पदसमुदायोपचारादसुरकुमाराः । एवं नागकुमारा इत्याद्यपि 'भावनीयम् । अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ?, १९४ द्वारे उच्यते, कुमारवन्वेष्टनात् । तथाहि-मर्च एवेते कुमारा इव श्रृङ्गाराभिप्रायकृत विशिष्टविशिष्टतरोत्तररूपक्रिया. भवनसमुद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहना अत्युल्यणरागाः क्रीडनपराश्च ततः कुमारा इन कुमारा इति । पत्यादीनां 'गाथानुबन्धानुलोम्यादिकारणाच्च कुतश्विदेते एवं पठिताः । प्रज्ञापनादौ त्वमुनव क्रमेण पठयन्ते, तथाहि स्थितिः "असुरा नाग सुवना विज्जू अग्गी य दीव उदही य । गाथा दिसिपवणथणियनामा दमहा एए भवणवासी ॥ १॥ [पद २ सूत्र १७७ गा. १३७]॥ २९ ॥ ११२८रुयन्तरभेदानाह--'पिसाये' त्यादि, सुगमा ।। ३० ॥ ११४६ इहापरेऽस्यष्टौ व्यन्तरभेदाः सन्तीत्यतस्तानप्याह-'अणे' त्यादिगाथाद्वयम् , अप्रज्ञप्तिकाः, पञ्चप्रज्ञप्तिकाः, ऋषिवादिताः, भृतवादिताः, क्रन्दिताः, महाक्रन्दिताः, कूष्माण्डाः पतगाश्चेत्येवमपरे-पिशा- प्र. आ. चादिव्यतिरिक्ता अष्टौ व्यन्तरनिकायाः रत्नप्रभायाः पृथिव्याः प्रथमे-उपरितने योजनशते भवन्ति ।। एतदुक्तं भवति-रत्नप्रभाया उपरितने रत्नकाण्डरूपे योजनसहस्र अध उपरि च प्रत्येकं योजनशतरहिते पिशाचादयोऽष्टौ व्यन्तरनिकायाः सन्ति । तत्र च यदुपरि योजनशतं मुक्तं तत्राध उपरि च दशयोजनरहितेऽप्रज्ञप्तिकादयोऽष्टाविति । तेषु च-अप्रज्ञप्तिकादिषष्टम व्यन्तरनिकायेषु रुचकस्याधस्ता१ परिमापनीयं-मु.वं. वि. सि. परि० नास्ति ।। २०विशिष्टोत्तरोत्तर. मु. ० विशिष्टविशिष्टतरोत्तरखं.॥ ३ माथा बन्धास्त्रं. ॥ ४ पतमा मु.॥५मप्राप्तादि० खं. ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy