SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय: खण्ड: ||३३६ ॥ 'भवणे' त्यादिगाथा एकोनविंशतिः, दीव्यन्तीति देवाः प्राग्भवोपात्तपुण्यप्राग्भारोपनतविशिष्टभोगसुखाः प्राणिविशेषाः । ते च मूलभेदतस्तावच्चतुर्विधाः । तद्यथा - भवनपतयो व्यन्तरा ज्योतिष्का विमानवासिनत्र । तत्र भवनानां पतयः - तन्निवासित्वात्स्वामिनो भवनपतयः । तन्निवासित्वं च बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यम् । ते हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु । असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु । भवनानामावासानां चायं विशेष:- भवनानि वहिवृ' तान्यन्तः समचतुरस्राणि अधःकर्णिकासंस्थानानि । आवासास्तु कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा इति । ' तथा विविधमन्तरं - शैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते वनान्तराः । यदिवा विगतमन्तरं विशेषो मनुष्येभ्यो येषां ते व्यन्तराः तथाहि मनुष्यानपि चक्रवर्ति-वासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचियन्त इति मनुष्येभ्यो विगतान्नराः । प्राकृतत्वाच्च सूत्रे 'वाणमंतरा' इति पाठ: । यद्वा 'वानन्तरा' इति पदसंस्कारः । तत्रापि वनानामन्तराणि वनान्तराणि तेषु भवा वानमन्तराः । पृषोदरादिस्वादुभयपदान्तरालवर्ती मागमः । इदं तु व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तं तु सर्वत्रापि जातिभेद एवानुसर्तव्यः । तथा द्योतयन्ति - प्रकाशयन्ति जगदिति ज्योतींषि - विमानानि तेषु भवा ज्योतिष्काः । तथा विविधं मान्यन्ते - उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु वसन्तीत्येवं शीला विमानवासिनः एते च भवनपत्यादयो देवाः 'क्रमेण यथासङ्ख्यं दशाष्टपञ्चपविंशतिसङ्ख्यै में युक्ता भवन्ति ॥ २८ ॥ सम्प्रत्येतानेव क्रमेण भेदानभिधित्सुः प्रथमं तावद्भवन पतिभेदानाह- 'असुरे 'त्यादि, भवन१ तुका बृहत्समहणीमलय वृत्तिः ५० ४ ॥ २ व्यन्तराः खं बृहत्सं. मलय. वृत्तौ च || ३ बनान्तराणि-खं. नास्ति ॥ १९४ द्वारे भवन पत्यादीना स्थितिः गाथा ११२८ ११४६ प्र. आ. ३३२ ॥३३६॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy