SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोङ्कारे सटीके द्वितीय: खुण्ड ॥ ३२१॥ अथेन्द्रिय विषयमानमाह-- ' बारे' त्यादि 'सार्द्धगाथा, द्वादशभ्यो योजनेभ्य आगतं घनगर्जितादिशब्दमुत्कृष्टतो गृहाति श्रोत्रम्, न परतः । परत आगताः खलु ते शब्दपुङ्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रविज्ञानं नोत्पादयितुमीशाः । श्रोत्रेन्द्रियस्य च तथाविधमत्यद्भुतं बलं न विद्यते येन परतोऽप्यागतं शब्दं शृणुयादिति ॥७॥ तथा चक्षुरिन्द्रियमुत्कर्पतः सातिरेकाद्यो जनलक्षादारम्प कटकुय्यादिभिरव्यवहितं रूपं गृह्णाति-परिच्छिनति । परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्त्यभावात् । एतच्चाभासुरद्रव्यमधिकृत्योच्यते । भासुरं तु द्रव्यम् प्रमाणागुलनिष्पन्नेभ्य एकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति । यथा पुष्करaratपार्श्वे मानुषोत्तरनगनिकटवर्त्तिनो नराः कर्कसंक्रान्तौ सूर्यभिम्बम् । उक्तं च " इगवीसं खलु लक्खा चउती चैव तह सहस्साई । तह पंच सया भणिया सत्ततीसाए अरिता ॥१॥ इह नयणविसयमाणं पुक्खरदीवडवासिमणुषाणं । घुठवेण य अवरेण य पिहं पिहं होइ नान्यं ||२||" [] तथा शेषाणि - प्राण- रसन-स्पर्शनेन्द्रियाणि क्रमेण गन्धं रसं स्पर्श च प्रत्येकमुत्कर्षतो नवभ्यो योजनेस्य आगतं "गृहन्ति; न परतः । परत आगतानां मन्दपरिणामत्वभावात् घ्राणादीन्द्रियाणां च तथारूपराणामपि तेषां परिच्छेदं कतुमशक्तत्वात् ||८|| १८८ द्वारे इन्द्रियाण स्वरुप विषय गाथा ३१९५-९ प्र. आ. १ सार्था-मु.।। २. तुला- प्रज्ञापनावृत्तिः प. २४६ ॥ ३ शब्द- सि.वि. नास्ति ॥ ४ विशेषावश्यक मा. गा. ३४३ सः द्रष्टव्या ॥ ५ द्रव्यमधिकृत्य-मु. ॥ ६ तुला-प्रापनावृत्तिः प. ३०१ A ॥ ७ सत्तती० इति प्रज्ञापनावृत्ती सि. | ३२१ ॥ प्रतौ च पाठः ॥ ८ गृह्णावि-सि.वि. ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy