________________
प्रवचनसारोद्धारे। सटीके
१८द्वारे प्रायश्चित्त
॥१०॥
७५८
तथा पाराश्चिकं नाम दशानं प्रायश्रितमापाने म्बलिङ्गिनी नृण्मार्यादिसेवाभिः, आदिशब्दाल्लिङ्गिघातराजवधादिपरिग्रहः । एतच्च अव्यक्तलिङ्गधारिणां जिनकल्पिकप्रतिरूपाणां क्षेत्रावहिःस्थिताना सुविपुलं तपः कुर्वतां महासचाना मुरीणाम्- आचार्याणामेव जघन्यतः षण्मासान् उत्कृष्टतो द्वादश वर्षाणि यावद्भवति, ततश्च-अतिचारपारगमनानन्तरं प्रव्राज्यते नान्यथेति १० ॥७५६।।
अथात्रैव विशेषमाह- "नवरं गाहा, नवरं-केवलं दशमप्रायश्चित्तापत्तावपि मत्यां नवममेव-अन. वस्थाप्यलक्षणं प्रायश्चित्तमध्यापकाना-उपाध्यायानां भवति । अयमर्थ:-येषु येप्वपराधेपु पागश्चिकमापद्यते तेषु तेष्वपि बहुशः समासेवितेषु उपाध्यायस्यानवम्थाप्यमेव प्रायश्चितं भवति, न तु पाराश्चिकम् , उपाध्याय स्यानवस्थाप्यपर्यन्तस्यैव प्रायश्चित्तस्य प्रतिपादनात् । एवं सामान्य साधूनामप्यनवस्थाप्यपाराश्चिकयोग्ये वपराधेषु सत्सु मृलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यम् , तच्चानवस्थाप्यं जघन्यतः षण्मासान यावद्भवति उत्कृष्टतस्तु वर्षमिति । इदं च आशातनानवस्थाप्यमाश्रित्योक्तम् , प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणि । उक्तं च
___ "तत्थ आसायणाअणवट्ठप्पो जहन्नेणं छम्मासा उक्कोसेणं संवच्छर, पडिसेत्रणाअणवट्ठप्पो जहन्नेणं बारस मासा उक्कोसेणं बारस संबच्छराणि" ति ।
तत्र तीर्थकरप्रवचनगणधरायधिक्षेपकारी आशातनानवस्थाप्यः । हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यकारी प्रतिसेवनानवस्थाप्यः ॥७॥७॥
१ 'नवर' मित्यादिगाथात्रयं-मु. ॥ २ आशातनानवस्थाप्या. सं.॥ .
प्र.आ. २२०