________________
प्रवचनसारोद्धारे सटीके
१८२द्वारे नरकेषु उपयातः गाथा १०९१३ प्र.आ.
द्वितीयः
11३०८॥
गच्छन्ति । खलुशब्दोऽवधारणे; तच्चाबधारणमेवम्-असंझिनः प्रथमामेव पृथिवीं यावद्गच्छन्ति; न परत इति; न तु त एवं प्रथमां गच्छन्ति । गर्भजसरीसृपादीनामपि उत्तरपृथिवीपटकगामिनां तत्र गमनभावात् । एवमुत्तरत्राप्य वधारणीयम् । असंझिनश्चात्र तियेचो ज्ञेयाः; संमृच्छिममनुष्याणामपर्याप्तानामेव कालकरणतो नरकगतेरभावात् । तत्रापि पल्योपमासङ्ख्येयभागायुष्केष्वेव, उक्तं च--
० "असन्त्री नेरइयाउ' पकरेगा जहन्नेणं दानासमहामाई, उड़कोसेणं पलिओवमस्स असंखेजइमागं परिति"[ ]त्ति।
__ तथा द्वितीयामेव पृथिवीं यावद्गच्छन्ति सरीसृपा-भुजपरिसर्पा गोधा-नकुलादयो गर्भव्युत्क्रान्ता, न ततः परतः । एवं तृतीयामेवगर्भजाः पक्षिणो-गृध्रादयः; चतुर्थीमेव सिंहाः-सिंहोपलक्षिताश्चतुष्पदा गर्भजाः, पञ्चमीमेव गर्भजा उरगाः उरःपरिसर्पाः सर्पादयः, षष्ठीमेव स्त्रियः-वीरत्नाद्या महारम्भादियुक्ताः, सप्तमी यावद्गर्भजा मत्स्या-जलचरा मनुजाश्च "अतिक्रराध्यवमायिनो महापापकारिणः । एष जीवविशेषमेदेन परमः-उत्कृष्ट उपपातो बोद्धव्यो नरकपृथिवीषु, जघन्यतस्तु सर्वेषामपि रत्नप्रभायाः प्रथमे प्रस्तटे, मध्यमतः पुनर्जघन्यात्परतः स्वस्वोत्कृष्टोपपाताद गिति ।। ९१-९२॥
सम्प्रति केषाश्चित्तिर्यग्योनिजानां बाहुल्यकृतं विशेषमाह- 'बालेसु' इत्यादि, नरकेश्य उद्धृता व्यालेषु-सादिषु, दंष्ट्रिषु-व्याघ्र-सिंहादिषु, पक्षिपु-गृधादिषु, जलचरेषु-मत्स्यजातिषु सङ्खयातायुः
० असंझिनो नरयिकायुः प्रकुर्वन्तो जघन्येन दश वर्षसहस्राणि उत्कृष्टतः पल्योपमम्यासंख्येयमागं प्रकुर्वन्ति ॥ १०वधारणं मावनीयं-मु.॥२ उयं-खं ।।३०जा:-स्व. अति० सि. वि. नास्ति ।
॥३०॥
MHAN
NDI