SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ प्रबचन सारोद्वारे सटीके द्वितीय: खण्ड: ॥२९८|| सम्प्रति 'लेखाउ' ति अष्टसप्तत्यधिकशततमं द्वारमाह काऊ ? काऊ २ तह 'काउनील ३ नीला ४ य नीलकिण्हा ५ य । किver ६ किव्हा ७ य तहा सप्तसु पुढवोसु लेसाओ ॥८३॥ [तु. बृहत्सं. गा. २८६ ] 'काऊ' गाहा, इह सामान्येन तावनारकाणां लेश्याषट्रकमध्यादाद्याः कृष्ण-नील कापोत्याख्यास्तिस्र एव लेश्या भवन्ति । ताथ प्रतिपृथिवि प्रतिपाद्यन्ते । तत्र कापोत्यादयो लेश्याः सप्तस्वपि पृथिवीषु यथासख्येन भवन्ति । तथाहि - 'रत्नप्रभायामेका कापोतलेश्यैव भवति । शर्कराप्रभायामपि कापोतलेश्यैव: केवलं क्लिष्टतरा दिया । एवं सर्वत्र सजातीया विजातीया' च लेश्याऽघोऽधः क्लिष्टतरा क्लिष्टतमा वाच्या वालुकाप्रभायो 'कापोती नीला च लेश्या भवतिः केषुचिदुपरितनेषु प्रस्तटेषु कापोतलेश्या, केषुचिदस्तनेषु नीललेश्येति भावः । पङ्कप्रभायां केवला नीललेश्यैव । धूमप्रभार्यां नीललेश्या कृष्णलेश्या च केषुचिदुपरितन प्रस्तटेषु नीललेश्या, शेषेष्ववस्तनप्रस्तटेषु कृष्णलेश्या भवतीत्यर्थः । तमः प्रभायामेव कृष्णलेश्या । तमस्तमःप्रभायामध्यतिमक्लिष्टतमा कृष्ण लेश्यैवेति । 'इह च केचिदाचक्षते यथैता नारकाणां वक्ष्यमाणाश्च देवानां वाह्मवर्णरूपाः किल द्रव्यलेश्या अवगन्तव्याः; अन्यथा सप्तमपृथिवीनारकाणां या सम्यक्त्वप्राप्तिः श्रुतेऽभिधीयते सा न युज्यते; 'तेजस्यादिलेश्यात्रय एव तदवाप्तेरुक्तत्वात् । यदुक्तमावश्यके १ का नीखन्मु । २०वी- सि वि. ॥ ३ कापोतादयो-मु. ॥ ४ तुलनाजीवसमासवृत्तिः प. ६५ तः ॥ ५ व्यादि लेश्या० सं. ॥। ६ कापीत मु. ॥ कृष्णलेश्मेव भवति-सं. ॥ ८ तुलना महत् वृत्तिः प. ११३ ॥ तेवसि ॥ १७८ द्वारे नारक लेश्याः गाथा १०८३ प्र. आ. ३२० ॥२९८॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy