SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ १७४ द्वारे नारक. प्रवचन सारोदारे सटीके गाथा द्वितीयः १०७४ प्र.आ. ॥२९१॥ दृष्टनिजकर्मविपाकत्वात् । अत एव च ते मिथ्याष्टिभ्योऽधिकतरदःखाः प्रवचने प्रतिपाद्यन्तेः भूयिष्ट. त्या मानसिकदुःखसम्मवात् । येऽपि च मिथ्यादृष्टयः परस्परमुदीरयन्ति दुःखानि तेऽप्येवं- यथेह जगत्यपूर्वाद् ग्रामान्तरादागच्छतः शुनो दृष्ट्वा तद्ग्रामवास्तव्याः श्वानो निर्दयं क्रुद्धयन्ति परस्परं प्रहरन्ति च, तथा नारका अपि विभङ्गज्ञानबलेन दूरत एवान्योऽन्यमालोक्य क्रोधान्धा वैक्रिय भयानक रूपमाधाय तेष्वेव स्वस्वनरकायासेषु क्षेत्रानु. भावजनितानि पृथिवीपरिणामरूपाणि शूल-शिला-मुद्गर-कुन्त-तोमर-खड़ग-यष्टि-परशुप्रभृतीनि प्रहरणानि वैक्रियाणि वाऽऽदाय तैः कर-चरण-दशनैश्व परस्परमभिघ्नन्ति; ततः परस्पराभिघाततो विकृताङ्गा निस्स्वनन्तो गाढवेदनाः सूनान्तःप्रविष्टमहिषादय इव रुधिरकर्दमे विचेष्टन्ते । एवमादिकाः परस्परोदीरिता दुःखवेदनाः। परमाधार्मिककृतास्तु तमत्रपान-ततायोमयस्त्रीसमालिङ्गन-कूटशाल्मल्यग्रारोपण-अयोधनाघात-वास्यादितक्षणक्षतक्षारोष्णतेलक्षेपण-कुन्तादिप्रोतन भ्राष्ट्रभर्जन-यन्त्रपीलन--करपत्रपाटन-बै क्रियानेक कंकोलूकसिंहादिकदर्थन-तप्तवालुकावतारण -असिपत्रवनप्रवेशन-वैतरणीतरङ्गिणीप्लावन- परस्परायोधनादिजनिता अपरिमिताः समयसमुद्रादवगन्तव्याः । किश्व-कुम्भीषु पच्यमानास्तीव्रतापात्ते नारका उत्कर्षतः पञ्च योजनशतान्युर्ध्वमुच्छलन्ति । तथा चोक्तं जोवाभिगमे १ मगवतीसू. ११२ । सू. २१ द्रष्टव्यम् ।। २ ०काकोलूक• मु.॥ ३१ HERE Sainatdada ॥२९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy