SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार सटीके द्वितीयः १७४ नारकवेदनाः गाथा २०७४ ॥२१ ॥ वाते तुषारशिखरिशिखरकृतस्थितैस्तुहिनकणगणसम्पर्किणो निरग्नेनिराश्रयस्य निरावरणस्य पुसो या शीतवेदना ततो भवति शीतवेदनेषु नारकाणामनन्तगुणा । किंव-यदि ते नारकाः शीतवेदनेभ्यो नरकेभ्य उत्पाट्य यथोक्तपुरुषस्थाने स्थाप्यन्ते तदा ते प्राप्तात्यन्तनिर्वातस्थाना इव निरुपमसुखसम्पत्तनिद्राम या. सादयेयुरिति । तथा क्षुत्पिपासाकण्डूपारवश्यज्वरदाहमयशोकादिकाऽन्याऽपि नारकाणां वेदना श्रुते श्रूयते । तथाहिते नारकाः सर्वदेवाक्षयाग्निदह्यमानशरीराः सकलजगद्गनसुस्निग्धघृतादिपुद्गलाहारेणापि न तृप्यन्ति । पिपासाऽपि' तेपी शश्वत्कण्ठोष्ठतालुजिह्वादिशोषकृग्निखिल पयोधिपयःपानेऽपि नोपशाम्यति । कण्डूः पुनः कण्डूयमाना क्षुरिकादिभिरष्यनुच्छेद्या । पारवश्य-ज्वर-दाह-भय शोकादयोऽप्यत्रत्येभ्योऽनन्तगुणाः । यदपि च नारकाणामवधिज्ञानं विभङ्गज्ञानं वा तदपि ते दुःखकारणम् । ते हि दरत एव तिर्यगूमधश्च निरन्तरं दुःखहेतुमापनन्तमालोकर्यान्त; आलोक्य च मयेन कम्पमानकायाः मोद्वेगमवतिष्ठन्ते । इयं सर्वाऽपि क्षेत्रस्वभावजा दुःखवेदना। अथ परस्परोदीरिता प्रतिपाद्यते-इह द्विविधा नारका:-मभ्यग्दृष्टयो मिथ्यादृष्टयश्च । तत्र ये मिथ्यादृष्टयस्ते मिथ्याज्ञानावलिप्सचेतसः परमार्थमजानानाः परस्परमुदीरयन्ति दुःखानि । ये तु सम्यग्दृष्टयस्ते तु नूनमम्माभिः कृतं जन्मान्तरेऽपि तत्किमपि पापं प्राणिहिंसादिरूपं येन निमग्ना वयं परमदुःखाम्भोधाविति परिभावयन्तः सहन्ते सम्यक्परोदीरितानि दुःखानि, न पुनरन्येषामुत्पादयन्ति; १०ऽपि-खं. नास्ति ॥२०५योनिधिः वि.सि.!!
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy