________________
प्रवचन
सारोद्धारे
सटीके
॥७॥
वाचा अन्तरभावादिकृतौ कायेन पुरोगमनादौ तथा इच्छामिध्यातथाकारादिप्रशस्त योगा करणे च मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तमिति २ ॥७५१ ॥
तथा शब्दादिषु - शब्दरूपप्रभृतिष्विष्टानिष्टविषयेषु 'रागादिविरचनं' रागस्य - अभिष्वङ्गलक्षणस्य वादिग्रहण - अरणस्य मनोमात्रेण करणं गुरूणां पुरतः "साहि" ति कथयित्वा यदीयते मिथ्यादुष्कृतमेतत्प्रायश्चित्तं मिश्रमिति भणितम् । इयमत्र भावना - नानाप्रकारान् शब्दादीन् विषयान् इन्द्रियविषयभूताननुभूय कस्यचिदेवं संशयः स्याद् यथा शब्दादिषु विषयेषु रागद्वेषौ गतो वा न वेति, ततस्तस्मिन् 'शङ्काविषये मिश्र - पूर्वं गुरूणां पुरत आलोचनं तदनन्तरं गुरुसमादेशेन मिथ्यादुष्कृतदानमित्येवंरूपं प्रायश्चित्तं भावतः प्रतिपद्यते । यदि हि निश्चितं भवति यथा अमुकेषु शब्दादिषु विषयेषु राग द्वेषं वा गत इति, तत्र तपोऽहं प्रायश्चित्तम्, अथैवं निश्चयो-न गतो रागं द्वेष वा तत्र स शुद्ध एव न प्रायश्चित्तविषयः ३ ॥ ७५२ ||
तथा नेपणीये- अशुद्धे अशनादिके- अशन-पान खादिम - स्वादिमरूपे सकलौघिकौपग्रहलक्षणे च वस्तुनि गृहीते सति परित्यागः कार्यः । इदमुक्तं भवति - सम्यगुपयुक्तेन केनापि साधुना भक्तपानादिकं गृहीतं पश्चात्कथमासुकमनेपणीयं वा ज्ञातं तत्र प्रायश्चित्तं तस्य गृहीतस्य भक्तपानादेः परित्यागः । उपलक्षणमेतत् तेन एतदपि द्रष्टव्यम् - अशठभावेन गिरि-राहु- मेघ-महिकारजः समावृते सवितरि १ साहियं जे ।। २ संशयविषये मु. 1 तुलना व्यवहारसूत्रवृत्तिः भा, १, पृ. ३७ ॥ ३ तुलना- व्यवहारसूत्रवृत्तिः मा. १, पृ. ३५४ ॥
९८ द्वारे प्रायश्चित्त
दशकं
गाथा
७५०
७५८
प्र. आ.
२१९
॥७॥