SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः खण्ड: ||२८५॥ इदानीं 'नरय' त्तिद्विसप्तत्यधिकशततमं द्वारमाह धम्मा १ वंसा २ सेला ३ अंजण ४ रिहा ५ मघा ६ य माघवई ७ । 'नरयपुढवीण नामाह सुति रमणाइ गोत्ताई ॥७१॥ tute १ सकरपह २ वालुयपह ३ पंकपहभिहाणाओं ४ । धूमपह ५ तमपहाओ ६ तह महातमपहा ७ पुढवी ॥७२॥ [ तुलना - बृहत्सं. गा. २३९] 'घम्मे' त्यादि गाथाद्वयम्, इह यदनादिकाल प्रसिद्ध मन्वर्थरहितमभिधानं तत्सर्वकालं यथाकथञ्चिदन्वर्थनिरपेक्षतया नमनात् प्रवर्तनानामेत्युच्यते । यत्पुनः सान्वर्थं तो:-स्वाभिधायकवचनस्य त्राणाद्यथार्थत्वसम्पादनेन पालनागोत्रमिति । तत्र धर्मा वंशा शैला अञ्जना रिटा मघा मायवती चेन्येतानि नरकपृथिवीनां सप्तानां यथाक्रमं नामानि भवन्ति । तथा 'रयण' ति एकदेशेन समुदायोपचाराद्रत्नप्रभादीनि गोत्राणि भवन्ति । तत्र प्रभाशब्दो बाहुल्यवाची । ततो रत्नानां - कर्केतनादीनां प्रभा-बाहुल्यं यस्यां सा रत्नप्रभा रत्नबहुलेति भावः । एवं शर्कराणामुलखण्डानां प्रभा यस्यां सा शर्कराप्रभा । वालुकायाः परुषपसूत्कररूपायाः प्रभा यस्य सा वालुकाप्रभा । पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, कर्दमामद्रव्योपलक्षितेत्यर्थः । धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेति भावः । तमसः प्रभा - बाहुल्यं यत्र सा तमःप्रभा । तथा महातमसः - अतिशायितमसः १ नरय० त्रि. बृहत्संयां नास्ति । २ पंकण्यभिहा० सि. वि. पंकप्पा त्रि. ॥ १७२ द्वारे नरक नाम गोत्राणि गाथा १०७११०७२ प्र. आ. ३५१ ||२८५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy