SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ वचनसारोद्धार सटीके १६९द्वारे कामभेदाः गाथा १०६२. द्वतीयः ॥२७९॥ प्र. आ. [३१३ हसिय ४ ललिओ ५ वगृहिय ६ दंत ७ नहनिवाय ८ चुघणं ९ चेव । आलिंगण १० मादाणं ११ कर १२ सेवण १३ ऽणंगकीडा १४ य ॥६५॥ [तु. दशच. नि. २५९-६२] 'कामो' गाहा, कामश्चतुर्विशतिविधः-चतुर्विंशतिभेदो भवति । तत्र प्रथमं तावत्सामान्येन द्विधासम्प्राप्त:-कामिनामन्योऽन्यं सङ्गमसमुत्थः, तथा असम्प्राप्तश्च-विप्रलम्भस्वरूपः । तत्र सम्प्राप्तश्चतुर्दशधाचतुर्दशप्रकारः, दशधा पुनः-दशप्रकारो भवत्यसम्प्राप्त इति ॥६२॥ तत्राल्पतरवक्तव्यत्वादसम्प्राप्तं तावदाह--'तत्थ असंपत्तो' इत्यादिगाथा, तत्र-द्वयोः सम्प्राप्ता-उसम्प्राप्तयोर्मध्ये असम्प्राप्तोऽयं-'अत्थे' ति अर्थनमर्थः-अदृष्टेऽपि रमण्यादौ श्रुत्वा तदभिलाषमात्रम् ?, चिन्ताअहो रूपादयस्तस्यागुणा इत्यनुरागेण चिन्तनम् २ तथा श्रद्धा-तत्सङ्गमाभिलाषः ३, तथा संस्मरणं-सङ्कल्पिततपस्यालेख्यादिदर्शनेनात्मनो विनोदनम् ४, तथा विक्लवत्ता-तद्विरहदुःखातिरेकेणाहारादिष्वपि निरपेक्षता , तथा लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम् ६, तथा प्रमादः-तदर्थमेव सर्वारम्भेषु प्रवर्तनम् ७, तथोन्मादो-नष्टचित्ततया आलजालजल्पनम् ८, तथा तद्भावना-स्तम्मादीनामपि तबुद्धथाऽऽलिङ्गनादिवेष्टा ९, मरणं च भवति दशमोऽसम्प्राप्तकामभेदः १० । इदं च सर्वथा प्राणपरित्यागलझणं न ज्ञातव्यम् , शृङ्गाररसभङ्गप्रसङ्गात् ; किन्तु मरणमिव मरणं-निश्चेष्टावस्था मूर्छाप्राया काचिदित्यर्थः । इत्थमेवा-भिनवगुप्तेन भरतवृत्तिकृताऽपि व्याख्यातत्वादिति । ॥२७९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy