________________
सारोदारे ।
- सटीके ।
| परिणाम
भेदाः | गाथा |१०५९
-द्वितीय ।
-॥२७५|
-गुणिता एकाशीतिर्भवत्ति; मैये काशीतिरतीत-वर्तमान-भविष्यलक्षणैत्रिभिः कालगुणिता द्वे शते त्रिचत्वारिंशदधिक भवतः। ___अयमत्र भावार्थः -पृथिव्यादीनां नवानामपि जीवानां मनसा वचनेन कायेन च प्रत्येकं वधस्य सम्भवात् सप्तविंशतिर्भेदाः, तत्रापि पृथिव्यादिवधं मनःप्रभृतीभिः कश्चित्स्वयं करोति, कश्चिदन्येन कारयति, कश्चित्पुनरन्यं कुर्वन्तमनुमन्यते, इति प्रत्येक करण-कारणा-ऽनुमतिसम्भवेनेकाशीतिभेदाः, ते च प्रत्येक कालत्रयेऽपि सम्भवन्तीति द्वे शते त्रिचत्वारिंशदधिक प्राणातिपातभेदा इति ॥१०५७॥१०५८॥१६६॥
सम्प्रति 'परिणामाणं अट्ठुत्तरसयं' ति सप्तषष्टयधिकशततमं द्वारमाह
संकप्पाइतिएणं ३ मणमाईहिं ३ तहेव करणेहि ३ । कोहाइचउक्केणं ४ परिणामेऽहोत्तरसयं च ॥१९॥ संकप्पो संरंभो १ परितावकरी भवे समारंभो २ ।
आरंभो ३ उहवओ सुडनयाणं च सव्वेसि ॥६॥ ''संकप्पाइ' गाहा, इह सङ्कल्पशब्देन संरम्भ उपलक्ष्यते पर्यायत्वात् ; आदिशब्दात्समारम्भारम्भ परिग्रहः, ततो वक्ष्यमाणस्वरूपाः संरम्भ-समारम्भा-ऽऽरम्भास्त्रयों मनो-वचन-कायैगुण्यन्ते जाता नव; तथा 'करणेहि' ति बहुवचननिर्देशात्कारणा-ऽनुमतिपरिग्रहः, ततः पूर्वोक्ता नव करण-कारणा-ऽनुमतित्रिकेण गुण्यन्ते जाताः सप्तविंशतिः, सापि क्रोधादिचतुष्केण-क्रोध-मान-माया-लोभलक्षणैश्चतुर्भिः कषायैगुण्यते
प्र. आ. ३१२
२७५॥