SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय: - खण्ड: ||२७१ || समयबद्धरससमुदायपरिमाणमित्यर्थःः तानि चानु भागबन्धस्यानान्य सङ्ख्येयलोकाकाशप्रदेशप्रमाणानि तेषां चानुभागबन्धस्थानानां निष्पादका ये कषायोदयरूपा अवसाय विशेषास्तेऽप्यनुभागबन्धस्थानानीत्युच्यन्तेः कारगे कार्योपचारात् । तेऽपि चानुभागवन्धाध्यवसाया अमख्येयलोकाकाशप्रदेशप्रमाणा इति ॥ ५१ ॥ अथ बादर सूक्ष्मं च भावपुद्गलपरावर्तमाह-- 'ताणी' त्यादि, तानि - अनुभागत्रन्धाध्यवसायस्थानानि सर्वाण्यप्यसङ्ख्ये यलोकाकाश प्रदेशप्रमाणानि म्रियमाणेन यदा जीवेनैकेन क्रमेण आनन्तर्येणोत्क्रमेण च पारम्पर्येण स्पष्टानि भवन्ति एष बादरभावपुद्गलपरावर्तः । किमुक्तं भवति ? यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वप्यनुभागवन्ध्यवसायेषु वर्तमानो मृतो भवति तावान् कालो बादरभावपुद्गलपरावर्तः सूक्ष्मः पुनः भावपुद्ग पर वर्तो बोद्धव्यो यदा क्रमेण परिपाटया सर्वाण्यप्यनुभागवन्धाध्यवसायस्थानानि स्पृष्टानि भवन्ति । इयमत्र भावना - कचिज्जन्तुः सर्वजघन्ये कषायोदयरूपेऽध्यवसाये वर्तमानो मृतस्ततो यदि स एव जन्तुरनन्तेऽपि काले गते सति प्रथमादनन्तरे द्वितीयेऽध्यवसायस्थाने वर्तमानो म्रियते तदा तन्मरणं गण्यते, शेषाण्युत्क्रमभावीन्यनन्तान्यपि मरणानि ततः कालान्तरे भूयोऽपि यदि द्वितीयस्मादनन्तरे तृतीयेser सायस्थाने वर्तमानो म्रियते तदा वृतीयं मरणं गण्यते, न शेषाण्यपान्तरालभावीन्यनन्तान्यपि मरणानि । एवं क्रमेण 'सर्वाण्यप्यनुभागवन्धाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि भवन्ति तावान् कालविशेषः सूक्ष्म मात्र पुलपरावर्तः । इह च बादरे प्ररूपिते सति सूक्ष्मः सुखेनैव शिष्यैः १ सर्वाण्यनु मु. सि. ॥ १६२ द्वारे पुद्गल परावर्त्तः गाथा १०३९ १०५२ प्र. आ. ३१० ॥२७१॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy