________________
AURATHI
प्रवचन सारोद्धारे
द्वितीयः खण्ड:
॥२६॥
प्रदेशादनन्तरों या प्रदेशो मरणेन व्याप्तो भवति स गण्यते, तस्मादप्यनन्तरो यः प्रदेशो 'मरणेन व्याप्तः
१६२ द्वारे स गण्यते, एवमानन्तर्यपरम्परया यावता कालेन सर्वलोकाकाशप्रदेशा मरणेन स्पृष्टा भवन्ति तावान्
पुद्गल. कालविशेषः सूक्ष्मक्षेत्रपुद्गलपरावर्तः । अन्ये तु व्याचक्षते-येष्वाकाशप्रदेशेश्वरगाढो जीवो मृतस्ते
परावतः सर्वेऽष्याकाशप्रदेशा गश्यन्ते, न पुनस्तन्मध्यवर्ती विवक्षितः कश्चिदेक एवाकाशप्रदेश इति ॥४॥४३॥
अथ बादरं कालपुद्गलपरावर्तमाह-ओसप्पिणीए' गाहा, अवसर्पिण्या उपलक्षणत्वादुः त्सपिण्याश्च यावन्तः समया:-परममूक्ष्मा: कालविभागास्ते यदा एकजीवन निजमरण: क्रमेणोत्क्रमेण वा स्पृष्टा भवन्ति तदा कालपुद्गलपराबतों भवेत् म्यूलः । अयमर्थः-यावता 'यारता कालेनैको जीवः प्र. आ. सर्शनष्यबसविण्यत्सर्पिणीममयान क्रमेणोत्क्रमेण वा मरणेन व्याप्तान करोति तावान कालविशेषो बादरः३०९ कालपुद्गलपरावर्तः ॥१७॥
सूक्ष्म कालपुद्गलपरावतेमाह-'सुहमा' इत्यादिगाथाद्वयम् , सूक्ष्मः पुनः कालपुद्गल. परावतों भवति, तद्यथा--एका कविजीवोऽवसर्पिण्याः प्रयमे समये यदि मृतो भवति पुनरपि तस्यावसर्पिणीप्रथमसमयम्यानन्तरे द्वितीये समय यदि म्रियते, एवं तरतमयोगेन-अनन्तरानन्तरसमयमरणलाभलक्षणेन एतेषु सर्ववयवमपिण्युत्मर्पिणीसम्बन्धिषु समयेषु यदि प्राणपरित्यागं करोति तदा सूक्ष्मः "पुद्गलपगवर्तो भवति । इहापि समयान अनुक्रमेणव-प्रथमसमयानुगतसमयपरम्परापरिपाट
१ मरणे-मु । मरासि ॥२ पञ्चमकर्मग्रन्थस्य देवेन्द्रसूरिकृतवृत्तिः [गा. द्रष्टव्या ॥ ३८णेन.मु.॥ २१८।। ४ यावता-मु.सि नास्ति ॥५काल पुमु॥