________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
खण्ड:
॥२६७|
अथ पादरक्षेत्र पुद्गलपरावर्तमाह- 'लोगे' स्यादि, लोकस्य - चतुर्दशरज्ज्वात्मकस्याकाशप्रदेशा - निर्विभागा नभोभागा यदा त्रियमाणेनात्र - जगति जीवेन स्पृष्टा व्याप्ताः क्रमेण तदनन्तरभावलक्षणेनोत्क्रमेण वा - अर्दवितमरणाक्रान्तक्षेत्र प्रदेशरूपेण तदा क्षेत्र पुद्गलपरावर्ती भवेत् स्थूलो- बादरः किमुक्तं भवति १ - यावता कालेनैकेन जीवेन क्रमेण उत्क्रमेण वा यत्र तत्र म्रियमाणेन सर्वेऽपि लोकाकाशप्रदेशा मरणे संस्पृष्टाः क्रियन्ते स तावान् कालविशेषो बादरः क्षेत्र पुद्गल परावर्तः || ४४||
सम्प्रतिक्षे
जीवो जहया' इत्यादिगाथाद्वयम् एकः कश्चिज्जन्तुरनन्तभवभ्रमणपरो यदा एकस्मिन् क्षेत्र प्रदेशेऽधिगते- प्राप्ते सति, तत्र स्थित इत्यर्थः कल्पनया 'परमार्थेन असङ्ख्यातप्रदेशावगाढत्वाज्जीवस्य, म्रियते प्राणान् परित्यजति पुनरपि तस्य- प्रथम मरणस्पृष्टप्रदेशस्यानन्तरे अव्यवहिते द्वितीये प्रदेशे यदि म्रियते, पुनरप्यनन्तरे तृतीये प्रदेशे यदि म्रियते, एवं तरतमयोगेन - अनन्तरानन्तरप्रदेश मरण लाभलक्षणेन सर्वस्मिन्नपि क्षेत्रे - लोकाकाशे मृतो भवति तदा सूक्ष्मः क्षेत्र पुद्गलपरावर्ती ज्ञेयः । अत्र च क्षेत्र प्रदेशान् अनुक्रमेणैव प्रथमप्रदेशानुबद्धप्रदेशपरम्परापरिपाटर्थव गणयेत् ; न पुनः पूर्वस्पृष्टान् व्यवहितान् वा प्रदेशान् गणयेत् ।
tent भावना - " यद्यपि जीवस्यावगाहना जघन्याऽप्यसङ्ख्येयप्रदेशात्मिका भवति, तथापि विवक्षिते कस्मिद्दिशे प्रियमाणस्य विवक्षितः कश्विदेकः प्रदेशोऽवधिभूतो विवक्ष्यते, ततस्तस्मात्प्रदेशादन्यत्र प्रदेशान्तरे ये नमः प्रदेशा मरणेन व्याप्यन्ते ते न गण्यन्ते, किन्त्वनन्तेऽपि काले गते सति विवक्षिता१ न पर० सु. ॥। २ समये खं. त्रि.सि. ॥ ३ तुलना पद्मसमय वृत्तिः २।३६ ५.७४ ।।
१६२ द्वारे
पुद्गलपरावर्त्तः
गाथा
१०३९
१०५२
प्र.आ.
३०९
॥२६७॥