________________
प्रवचन:
सटीके
द्वितीय:: खण्ड:
॥२६०॥
दुष्पमानुभावबहुला अल्पसुषमानुभावेत्यर्थः । पञ्चमी दुष्पमा । षष्ठी स्वतिशयेन दुष्पमा अतिदुष्पमा, सर्वथा सुषमानुभावरहिता दुष्पमदुष्पमेत्यर्थः ॥ ३४ ॥
अथैतेषामेव खुपसुभानी पण्यामरकाणां प्रमाणमाह-'सुसम सुसे' त्यादि, सुषमसुषमाय काल:- कालप्रमाणं सागरोपमाण चतस्रः कोटिकोटयो भवन्ति, सुषमाय तिस्रः सागरोपमकोटिकोटयः; सुषमदुष्पमायां द्वे सागरोपमकोटिकोटी; एका-एकसङ्ख्या सागरोपमकोटिकोटिद्विचत्वारिंशता सह न्यूना भवति स दुष्पमसुमायाः कालो; द्विचत्वारिंशद्वर्षसहस्रन्यूनैकसागरोपमकोटिकोटिय प्रमाणा दुष्पसुमेत्यर्थः । अथ दुष्पमायां कालप्रमाणमेकविंशतिवर्षसहस्राणि तावानेव च दुष्पमाप्रमाण एव भवेत् कालः अतिदुष्पमायामपि एकविंशतिवर्षसहस्रप्रमाणा दुष्पमदुष्पमापि भवतीति भावः ।
1
अस्यां चावसर्पिण्या शरीरोच्छ्रयायुष्क कल्पवृक्षादिशुभभावानां परतोऽनन्तगुणा परिहानिः । तथाहिसुमसुमायां मनुष्याणां गव्यूतत्रितयं शरीरोच्छ्रयः, त्रीणि च पल्योपमान्यायुः, शुभपरिणामोऽपि कल्पवृक्षादिरनेकः । सुपमायां द्वे गव्यते द्वे च पल्योपमे कल्पपादपादिपरिणामश्र शुभो हीनतरः । सुषमदुष्पमायामेकं गतम् एकं पल्योपमं हीनतमत्र कल्पवृक्षादिपरिणामः । दुष्पमसुपमाय पञ्च धनुःशतप्रभृति सप्तहस्तान्तं तनुमानमायुरपि पूर्वकोटिप्रमाणं परिहीनश्च कल्पवृक्षादिपरिणामः । दुष्पमायामनियतं देहमानमारप्यनियतं वर्षशतादर्वाक् पर्यन्ते विंशतिवर्षाणि परमायुः, शरीरोच्छ्रयो हस्तद्वयम्, औषधिविर्यपरिहाणिश्रान्तगुणा । अदुपमायामप्यनियतं शरीरोच्छ्यादि सर्वं पर्यन्ते तु हस्तप्रमाणं वपुः षोडश वर्षाणि परमाविशेपौषधिपरिहानिश्चेति । एवमन्यदप्येतत्स्वरूपं समयात् समवसेयमिति ॥ १०३५-३६-३७।। १६०॥
१६० द्वारे अवसर्पिणीस्वरुपं
गाथा
१०३३
१०३७
प्र. आ.
३०६
॥२६०॥