________________
प्रवचन
सारोद्वारे
सटीके
॥। ४ ॥
तथा विवेक:- परित्यागः, यत्प्रायश्चित्तं विवेक एवं कृते शुद्धिमासादयति नान्यथा, यथा कर्मणि गृहीते, तद्विवेकात्वाद्विवेकः ४ ।
तथा व्युत्सर्गः --कायचेष्टानिरोधः, यद् व्युत्सर्गेण-कायचेष्टानिरोधोपयोगमात्रेण शुद्धयति प्रायश्चित्तं यथा दुःस्वप्नजनितं तत् व्युत्सगर्हित्वाद् व्युत्सर्गः ५ ।
'तवे 'ति यस्मिन् प्रतिसेविते निर्विकृतिकादिषण्मासान्तं तपो दीयते तत्तपोऽर्हत्वात्तपः ६ । यस्मिन् पुनरापतिते प्रायश्चित्ते सन्दूषितपूर्व पर्याय देशावच्छेदः शेषपर्यायरक्षानिमित्तं दुष्टव्याधिसन्दूषितशरी बैंक देशच्छेदन मित्र शेषशरीरावयव परिपालनाय क्रियते तच्छेदार्हत्वाच्छेदः ७ ।
'मल' ति यस्मिन् समापतिते प्रायश्चिते निरवशेषपर्यायोच्छेदमाधाय भूयो महावतारोपणं तन्मूला र्हस्वान्मूलम् ८ ।
द
येन पुनः प्रतिसेवितेन उत्थापनाया अप्ययोग्यः सन् कञ्चित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपीर्णं भवति पश्चाच्च चीर्णतपास्तदोषोपरतौ व्रतेषु स्थाप्यते तदनवस्थाईत्वाद 'नवस्थितप्रायश्चित्तम्, यद्वा यथोक्तं तपो यावन कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यते इत्यनवस्थाप्यः, तस्यभावोऽनवस्थाप्यता ९ ।
'पारंचिए चेव' ति 'अंचू गतौ' यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमञ्श्चति तत्पाराञ्चितम् पाराचितमर्हति 'तदर्हती' ति ( पा० ५-१-६३) सूत्रेण डः पाराञ्चितम् यद्वा पारम् - अन्तं प्रायश्चित्तान १० नवस्थता प्रायश्चित्तं सं. 1 तदनवस्थित्वादनवस्थितप्रायश्चित्तं इति व्यवहारवृत्तौ (मा. १, प. २०) पाठ: ।।
1
९८ द्वारे प्रायश्चित्त
दशकं
गाथा
७५०
७५८
प्र. आ.
२१८
॥ ४ ॥