________________
प्रवचन
सारोद्धारे
सटीके
१५८ द्व पस्योपम म्वरूपं गाथा १०१८
द्वितीयः खण्ड:
१०२६
॥२४८॥
प्र. आ.
पुनरेकैकं द्विभेदं ज्ञातव्यं-मादरं सूक्ष्मं च; तत्र वालाग्राणां सूक्ष्मखण्डाकरणतो यथावस्थितानां स्थूलानां ग्रहणादादरम् , तेषामेवासङ्ख्येयसूक्ष्मखण्डकरणतः सूक्ष्ममिति ॥१८॥
का पुनरसौ पल्यो येन पल्योपमे उपमा विधीयते ? इत्याह--'जं जोयण.' गाहा, नाम इति शिष्यस्य कोमलामन्त्रणे पलिओवम' इत्यत्र प्राकृतत्वेन विभक्तिव्यत्ययात् सप्तमी; 'पल्लं' इत्यादावपि लिङ्गव्यत्ययात् पुस्त्वम् , ततश्र पत्योपमे-पल्योपमविषये धान्यपल्यवत्पल्यः प्रागुदिष्टः स विज्ञेयो । यः किमित्याह-यो विस्तीर्णः, कियदित्याह-योजनमुत्सेधागुलक्रमनिष्पन्नम् ; वृत्ताकारत्वाईयेणापि योजनमिति द्रष्टव्यम् : 'तच्च योजनं त्रिगुणं सविशेष परिरयेण; भ्रमितिमङ्गीकृत्य सर्वस्यापि वृत्तपरिधेः किश्चिन्यूनपड़भागाधिकत्रिगुणत्वादस्यापि पल्यम्य किश्चिन्यूनषड्भा(ग्रं०-९०० गाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः । उवि उसमोऽपि तावदेव योजनमेवेत्यर्थः, आयामविष्कम्भाभ्यां प्रत्येकमेकयोजनमानः 'उच्चत्वेनापि योजनप्रमाणः, परिधिना तु किश्चिन्यूनषड्भागाधिकयोजनत्रयमानो यः पल्यः स इह पल्योपमं विजेय इति तात्पर्यम् ॥१९॥
अथ अयमेव पल्यो यत्स्वरूपैर्वालाप्रैः पूर्यते तदेतन्निरूपयितुमाह-'एगाहिये' त्यादि, एकेनाला निवृत्ता एकाहिक्यः, द्वाभ्यां त्रिभिश्चाहोभिनिष्पन्ना द्वयाहिक्यच्याहिक्यश्च, तासामेकाहिकी-द्वयाहिकी-व्याहिकीनामेवं चतुराहिकीनामेवं यावदुत्कर्षतः सप्तगत्रारूढानां वालानामेवातिसूक्ष्मवादग्रकोटयो
२४८
१ तथा-कि. २ उच्चत्वे पि-ख. ॥