________________
प्रवचनसारोद्धारे
सटीके
द्वितीयः खण्ड:
स्विनः, छादयन्तीति यानि ज्ञानावरणादीनि कर्माणि, तेषु तिष्ठन्तीति छद्मस्थास्तेषां मरणं छद्मस्थमरणमेतत् । इह च प्रथमतो मनःपर्याय निर्देशो विशुद्धिकृतप्राधान्याङ्गीकारेण चारित्रिण' एतदुपजायते इति स्वामिकृतप्राधान्यापेक्षया द्रष्टव्यम् ; एवमवध्यादिष्वपि यथायोग स्वधियेव हेतुर्वाच्य इति । तथा केवलमरणं 1१५७द्वारे केवलिन:-उत्पन्न केवलज्ञानस्य सकलकर्मपुद्गल शाटननो निरमाणस्य भवतीति ।।१०१५||
मरणानि साम्प्रतं वैहायस-गृध्र पृष्ठमरणे अभिधातुमाह-"गिहाई' त्यादि, गधाः- प्रतीताः, ते आदिर्येषां शकुनिकाशिवादीनां तेर्भक्षणं गम्यमानत्वादात्मनस्तदनिवारणादिना तद्भश्यकरि-करभादिशरीरानुप्रवेशेन च गृधादिभक्षणम् ; तकिमुच्यते ? इत्याह-*गिडपिट्ठ' ति गृधैः स्पृष्टं-स्पर्शनं यस्मिन् तद् गृध्रस्पृष्टम् , यदि वा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदगदि च मतु यस्मिन् तद् गृध्रपृष्टम् ; स ह्यलक्तकपूणिकापुट- प्र.आ. प्रदान नात्मानं गध्रादिभिः पृष्ठादौ भक्षयतीति । पश्वानिर्दिष्ट्रस्यापि 'चास्य प्रथमतः प्रतिपादनमत्यन्तमहामत्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम् ।
___ 'उब्बंधणाइ वेहास' मिति उद्-उद्ध्वं वृक्षशाखादी बन्धनमुद्बन्धनम् , तदादिर्यस्य तरुगिरिभृगुप्रपातादेरात्मनेव' जनितम्य मरणस्य तदुद्घन्धनादि । 'वेहास' मिति प्राकृतत्वाद्यलोपे विहायसिव्योमनि भवं वहाय मम् । उद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्य विवक्षयेत्थमुक्तमिति । नन्वेवं
॥२४॥
१ निर्देशाद्विशु.मु.सि. ॥२६णि-सि.वि.॥ ३ गद्धाइ गाहावं. ४ गद्धपट्ट-ख. सि. वि.॥ ५ तस्य मु.सि. । तस्याःजे.! चास्या-खं । वि. प्रतौ उत्तराध्ययनवृत्तोऽपि चास्य-इति पाठः ॥ ६०वात्मजनितस्य-खं.॥ ७ स्थानाङ्गवृतौ तु प्राकृतत्वेन 'वेहाणस'-मित्युक्तमिति ।।
॥२४॥