________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥ २३७॥
प्रतिक्षणमा युव्यचिचटनलक्षणमात्रीचिमरणं पञ्चविधं भणन्ति तीर्थकर गणधरादयोऽस्मिन् संसारे जगति । पञ्चविधत्वमेवाह- द्रव्ये क्षेत्रे काले भने 'च भावे च द्रव्याssवीचिमरणं क्षेत्राssवीमचिरणं कालाssवीचिमरणं भवाssवीचिमरणं भावाऽऽवीचिमरणं चेत्यर्थः । तत्र द्रव्याऽऽवीचिमरणं नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृति निजनिजायुः कर्मदलिकानामनुसमय मनुभवनाद्विचटनम् ; तच्च नारकादिभेदाच्चतुर्विधम् एवं नारकादिगति' चातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतुर्विधम् । ततस्तत्प्राधान्यापेक्षया क्षेत्र मरणमपि चतुर्थैव । काल इति यथायुष्ककालो गृह्यते, न तु अद्धाकालस्तस्य देवादिष्वसम्भवात् ; सच देवायुष्ककालादिभेदाच्चतुर्विधः, अतस्तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्विधमेव । नारकादिचतुर्विधमवापेक्षा भावचिमरणमपि चतुर्थैव तेषामेव च नारकादीनां चतुर्विधायुः क्षयलक्षणभावप्राधान्यापेक्षया भावावीचिमरणमपि चतुर्धेवेति ॥ १००८ ॥
1
" अथावधिमरणमाह-'" एमेवेत्यादिगाथा पूर्वार्द्धम्, एवमेव यथाऽऽवीचिमरणं द्रव्य-क्षेत्रकाल भव- भावभेदतः पञ्चविधं तथेदमवधिमरणमपीत्यर्थः । तत्स्वरूपमाह यानि मृतः सम्प्रतीति शेषः, तानि चैव 'मरह पुण'ति तिव्यत्ययेन मरिष्यति पुनः किमुक्तं भवति १- अवधि:--मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतयाऽऽयुः कर्मदलिकान्यनुभूय म्रियते, पुनर्यदि नान्येवानुभूय मरिष्यति तदा द्रव्यावधिमरणम् ; तद्व्यापेक्षया पुनस्तद्ग्रहणा वधि यावज्जीवस्य मृतत्वात् । सम्भवति हि गृहीतोज्झितानामपि कर्म दलिarat yo परिणामवैचित्र्यादिति । एवं क्षेत्र कालादिष्वपि भावना कार्या ।
१ व सु. नास्ति ॥ २ तु खं ॥ ३ अधावधि-मु. ॥ ४ एवमेवेत्यादि, एवमेव-मु. ॥
५०. । •वधिया० सि. वि. खं. प्रतौ भगवती सूत्रवृत्तौ [५.६२५] अपि वर्षि० या इति ॥
१५७ द्वार मरणानि
१७
गाथा
१००६१०१७
प्र. आ.
२९९
॥२३७।।