________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय
खण्ड:
॥२३२॥
शीतादिसम्पर्कतश्रावश्यमचित्ती ' भवतीति । केचित्तु योजनशतस्थाने गव्यूतशतं पठन्ति । यदुक्तं निशीथचूण 'केई पठतिगाउयसयगाहा' [ भाष्यगाथा ४८३३, भा. ३, पृ. ५१६ ] इति ।
तथा "भंडसंती' ति प्राकृतत्वेन विभक्तिव्यत्ययात् भाण्डसङ्क्रान्त्या - पूर्वभाजनादपरभाजनप्रक्षेपणेन पूर्वभाण्ड शालाया वाऽन्यभाण्डशाला सञ्चारणेन वाताऽग्निधूमैश्व योजनशतमगतमपि स्वस्थानेऽन्तरे वा वर्तमानं लवणादिकमचितं भवतीति । इत्थं च क्षेत्रादिक्रमेणाचित्तीभवनं पृथिवीकायिका 'दीनां वनस्पतिपर्यन्तानां सर्वेषामपि प्रतिपत्तव्यम् ||१००१ ॥
अत एवाह - 'हरियाले' त्यादि, हरितालादयः प्रतीता एव, नवरं 'मुद्रिका द्राक्षा, अभया-efecate, eastaमेव ज्ञातव्याः, योजनशतात्परतः पूर्वोक्तेरेव हेतुभिरचित्तीभवन्तीति भावः । 'आइन्नमाइन' चि योजनशतादागता अपि केचिदाचीर्णाः केचित्पुनरनाचीर्णाः, तत्र पिप्पली-हरितक्यादय आचीर्णा अतो गृह्यन्ते, खजूर द्राक्षादयः पुनरनाचीर्णास्ततोऽ * चित्ता अपि न गृह्यन्ते इति ||१००२ ||
अथ लवणादीनामेवा चित्तताकारणाभिव्यञ्जनायाह - 'आरुहणे' इत्यादि, तेषां लवणादीनामारोहणे शकटगवादिपृष्ठादिष्वधिरोपणे सति तथा अवरोहणे शकटादिभ्य एवावतारणे, तथा निषीदन्तीति नन्द्यादेश कृतिगणत्वाप्रत्यये निषदना - लवणाद्युपरि निविष्टपुरुषाः तेषां गवादीनां च गात्रोष्मणा; तथा यो यस्य लवणादेराहारी भीमादि: पार्थिवादिस्तस्य व्यवच्छेदे च अभावे सति तथा उपक्रम्यते--बहु
+
१ भवति मु. ॥ २ कानां-. ।। ३ मुद्रि (मृद्धी) का इति धर्मसंग्रहवृत्तौ [ मा. १.] पाठः । द्राक्षापर्याये तुमृडीका दृश्यन्ते न मुद्रिका, अभिधानचिन्तामणावपि द्राक्षा तु गोस्तनी । मृद्वीका हारहूरा च (४।२२१-२२२) । ४० चित्तता-खं. वि. ॥
१५५ द्वारे
योजन
शतेना
चिराता
गाथा
१००१
१००३
प्र. आ.
२१७
१२३२॥