SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीयः खण्ड: ॥२३०॥ ततो-- योनिविध्वंसे सति जायतेऽवीजत्वं तद्बीजमबीजं भवति, उप्तमपि नाङ्कुरमुत्पादयतीति भावः ।।९९५ ।। ९९६।। तथा - ' तिले' त्यादि, तिल-मुद्र- माष चवलकाः प्रतीताः, 'मयूरो- वृत्ताकारो धान्यविशेषः, (ग्रन्था० ७००) चनकिका इत्यन्ये, कलाय:- त्रिपुटाख्यो धान्यविशेषः कुलत्था:-- चवलकाकारा श्चिपिटिका भवन्ति, तुवर्य:-- आढक्यः, वृत्तचणका:-- शिखारहिता वृत्ताकाराश्रणकविशेषाः, वल्ला--निष्पावाः, एतेषां दशानां धान्यानां कोष्टकादिषु क्षिप्त्वा विहितानां ततोऽवलिप्तानां ततो लाञ्छितानां रेखादिभिः कृतलाञ्छनानां मुद्रितानां चोत्कृष्टा स्थितिर्वर्षपञ्चकं यावद्भवति ततोऽवीजत्वं जायते । छन्दोऽनुरोधाच्च पिहिताऽवलिप्तयोर्व्यतिक्रमनिर्देशः ॥ ९९७ ॥ ९९८ 'अयसी' त्यादि गाथाद्वयम्, अतसी--क्षुमा, लडाकुसुम्भम् कङ्गुः -- पीततण्डुलाः, 'कोडूसग' ति कोरदूषकः कोद्रवविशेषः, शणं त्वक्प्रधानो धान्यविशेषः, 'धरह' त्ति धान्यविशेषः स वरठीति संपादलक्षादिषु प्रसिद्धः, सिद्धार्थाः सर्षपाः, कोद्रवाः प्रतीता एव रालकः -- कविशेषः, मूलकं-शाकविशेषस्तस्य बीजानि मूलकबीजानि, एतेषां दशानामपि धान्यानां कोष्टकादिषु निक्षिप्तानाम्, उपलक्षणमेतत् पिहितानामवलिप्तानां लाञ्छितानां मुद्रितानां चोत्कृष्टायां स्थित सप्त वर्षाणि भवन्ति । जघन्येन पुनः समग्राणां सर्वेषामपि पूर्वोक्तानां धान्यानामन्तर्मुहूर्त स्थितिर्भवति । अन्तर्मुहू I तुला-भगवती सूत्रवृत्तिः १. २७४ ॥ २ पनि० खं. ॥ ३ कलायास्त्रि० नं. सि. ।। ४०श्चिपिटा-खं. ॥ ५०काः- कोद्रयविशेषाः- मु.॥ ६ पठति रीति सि. ॥ ७ स्थितिर्भवेत्-वि. सि. ॥ । १५४ द्वारे धान्या बीजत्वम् गाथा ९९५ १००० प्र. आ. २९६ ॥२३०॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy