________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥२२७॥
एवं स्वरूपं भक्तमपि - ओदनादिकं नैव भुञ्जीत आस्तां तावदिनरसावद्यव्यापारकरणमित्यपिशब्दार्थः । 'सो होइ' तिस पुनर्दशमप्रतिमाप्रतिपत्ता कश्चित् क्षुरमुण्ड: - मुण्डितमस्तको भवति, 'सिहिलि' ति शिवा शिरस कोऽपि भारतीति ॥९९२॥
तथा - 'जं निहिय' गाहा, नवरं केवलं स श्रावकस्तत्र तस्यां दशमप्रतिमार्या स्थितो यन्निहितं-भूम्यादौ निक्षिप्तमर्थजातं द्रव्यं सुवर्णादिकं तत्पृच्छतां सुतानां पुत्राणाम् उपलक्षणत्वाद्भात्रादीनां च यदि जानाति ततः कथयति अकथने वृत्तिच्छेदप्राप्तेः अथ नैव जानाति ततो ब्रूते नैवाहं किमपि जानामि - • स्मरामीति । एतावन्मुक्त्वा नान्यत्किमपि तस्य गृहकृत्यं क कल्पत इति तात्पर्यम् ॥ ९९२ ॥
कादश प्रतिमामाह-'खुरमु'डो' गाहा, क्षुरेण मुण्डो- मुण्डितः क्षुरमुण्डो लोचेन वा-हस्तgat: सन् रजोहरणं पतद्ग्रहं च उपलक्षणमेतत् सर्वमपि साधुपकरणं गृहीत्वा "समणभूओ' ति श्रमणो-निर्ग्रन्थस्तद्वद् यस्तदनुष्ठानकरणात्स श्रमणभूतः साधुकल्प इत्यर्थः, विहरेत्--गृहान्निर्गत्य निखिलसासामाचारी समाचरणचतुरः समिति-गुप्त्यादिकं च सम्यगनुपालयन्, 'भिक्षार्थं गृहिकुलप्रवेशे सति श्रमगोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां दत्तेति भाषमाणः, कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणी ग्राम-नगरादिष्वनगार इव मासकल्पादिना विचरेदेकादश मासान् यावदिति । एतच्चोत्कृष्टतः कालमानमुक्तम् जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमन्तमुहूर्तादिमाना एव; तच्च मरणे वा प्रब्रजितत्वे वा 'सम्भवति, नान्यथेति ॥ ९९.३।।
१० सि. वि. ।। २ समपाहूओ मु. ॥ ३ ब-मु. नास्ति ॥ ४ तुला- समवायावृत्तिः प २० ॥ ५ प्रव्रजति सि. वि. ।।
१५३
श्राद्ध
प्रतिम
गाथा
९८०
९९४
प्र. अ २९५
॥२२७