________________
प्रवचनसारोद्धारे सटीके
श्राद्ध प्रतिमाः
गाथा
द्वितीयः
१२२६॥
प्र.
आ.
सेयम् , एतच्च प्रागुक्तमपि विस्मरणशीलविनेयजनानुग्रहाय पुनरुपन्यस्तम् , एवमन्यत्रापि ॥९८९॥
अथाष्टमी-नवम्यौ प्रतिमे प्रतिपादयितुमाह--'आरंभे त्यादि, अष्टमी-स्वयमारम्भवर्जनप्रतिमा भवति यस्यामष्टौ मासान् यावदारम्भस्य-पृथिव्याधुपमर्दनलक्षणस्य स्वयम्-आत्मना करणं-विधानं वर्जयति-परिहरति । स्त्रयमिति वचनाच्चैतदापन्नं- 'वृत्तिनिमित्तमारम्भेषु तथाविधतीव्रपरिणामरहितः परैः कर्मकरादिभिः सापद्यमपि व्यापारं कारयतीति ।
ननु स्वयमप्रवर्तमानस्याप्यारम्भेषु प्रेष्यान व्यापारयतः प्राणिहिंसा तदवस्थैव, सत्यम् , किन्तु या सर्वथैव स्वयमारम्भाणां करणतः परैश्च कारणत उभयजन्या हिंसा सा स्वयमकरणातस्तावत्परिहतेव । यतः स्वल्पोऽपि प्रारम्भः परिहियमाणः प्रोज्जम्भमाणमहाव्याधेः स्तोकतर-स्तोकनमक्षय इव हित एव 'भवतीति ।
या पुनर्नवमी-प्रेप्यायम्भवर्जनप्रतिमा भवतिः यस्यां नव मासान यावत् पुत्र-प्रात्रप्रभृतिषु न्यस्तसमस्तकुटुम्बादिकार्यभारतया धन-धान्यादिपरिग्रहेप्वल्पाभिष्वङ्गतया प्रेष्यैरपि-कर्मकरादिभिरपि आस्ता स्वयम् आरम्भान-सपापच्यापारान् महतः कृयादीनिति भावः । आसनदापनादिव्यापाराणां पुनरतिलघूनामनिषेध एव; तथाविध कर्मवन्धहेतुत्वाभावेनारम्भत्वानुपपत्तेः ॥१९॥
अथ दशमी प्रतिमामाह-'दसमे' त्यादि, दशमी पुनरुद्दिष्टभक्तवर्जनप्रतिमा दश मासान यावद्भवति, यस्यामुद्दिष्टम्-उद्देशम्तेन कृतं-विहितमुद्दिष्टकृतम् । तमेव श्रावकमुद्दिश्य संस्कृतमित्यर्थः ।
१ वृत्तिनिवृत्त ख. ॥ २ या-जे. नास्ति ।। ३ भवति-मु. सि.॥४८कर्म० जे. नास्ति ।
२९५
1२२
B2
Shaiksi