SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीक द्वितीयः खण्ड ॥२२३॥ , दशाश्रुतस्कन्धादावुपलभ्यते । श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् एवं दर्शन (व्रत) प्रतिमादिष्वपि यथायोगं भावना कार्या ॥ ९८२ ॥ अथ गाथाद्वयेन व्रत- सामायिक पौषधप्रतिमात्रयमाह - 'बीये' त्यादि, अणुव्रतानि-स्थूलप्राणातिपातविरमणादीनि उपलक्षणत्वाद् गुणत्रतानि शिक्षाव्रतानि च वधबन्धाद्यतिचाररहितानि निरपवादानि च धारयतः सम्यक्परिपालयतो द्वितीया व्रतप्रतिमा भवति । सूत्रे च प्रतिमा- प्रतिमावतोरभेदोपचारादित्थं निर्देशः । तथा तृतीयायां सामायिकप्रतिमार्या सामायिकं - सावद्ययोग परिवर्जन निरवद्ययोगा सेवनस्वभावं कृतं विहितं देशतो येन स सामायिककृतः । आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदत्वम् । इदमुक्तं भवति - अप्रतिपत्र पोपधस्य दर्शनत्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं तृतीया प्रतिमेति । तथा "भवति चतुर्थी पोषधप्रतिमा यस्यां चतुर्दश्यष्टम्यादिषु दिवसेषु चतुर्दश्यष्टम्यमावास्यापौर्णमासीषु पर्व तिथिषु चतुर्विधमप्याहार - शरीर-सत्कारा- ब्रह्मचर्य - व्यापारपरिवर्जनरूपं पौषधं परिपूर्णम्, न पुनरन्यतरेणापि प्रकारेण परिहीनं सम्यग् आगमोक्तविधिना स- प्रतिमाप्रतिपत्ता तुशब्दस्यावधारणार्थत्वादनुपालयत्येव - आसेवत एव । एतासु चतसृष्वपि व्रतादिषु प्रतिमासु बन्धादीन् बन्ध-वध-च्छ विच्छेदप्रभृतीन् पष्टिसंख्यान् अतिचारान् द्वादशव्रतविषयान् प्रयत्नतो वर्जयति परिहरतीति ॥ ९८३ ॥९८४॥ अथ प्रतिमाप्रतिमास्वरूपमाह - 'सम्ममणुव्वय' गाहा, सम्म' त्ति सम्यक्त्वं मकारोऽला१ मति मु. नास्ति । २ पटिहान् जे. नास्ति खि प्रतौ पार्श्वभागे योजितम् ।। १५३द्वारे श्राद्धप्रतिमाः गाथा ९८० ९९४ प्र.आ. २९४ ॥२२३॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy