________________
वचन-
बरोद्धारे ।
नामिकाः पञ्च गतयः । तत्र गम्यते-प्राप्यते स्वकर्मरज्जूसमाकृष्टेजन्तुभिरिति गतिः, नारकाणां गतिनारकगतिः तिरश्वाम्-एकेन्द्रियादीनां गतिम्तिमतिः, नशम-मनु याणां गतिरगांता, सुराणा-देवानां गतिः सुरगतिः, सिद्धगतिस्तु कर्मजन्या शास्त्रपरिभाषिता न भवति, केवलं गम्यत इति मतिरिति व्युत्पत्तिसाम्यमात्रादिहोपात्तेति ॥९७८॥ ___अथ पञ्च ज्ञानानि चारित्राणि चाह-'नाणाइ' इत्यादि, मतिश्रुता-ऽवधि-मनःपर्यय केवललक्षणेभैदैः पञ्च ज्ञानानि । एतानि चाग्रे व्याख्यास्यन्ते ।
तथा चर्यते-गम्यते प्राप्यते भवोदधेः परकूलमेभिरिति चरणानि-चारित्राणि, तानि च पञ्च सामायिक पदेकदेशेऽपि पदसमुदायोपचारात् छेदोपस्थापनिक परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं चेति ।
तत्र समो-राग-द्वेपरहितत्वाद् अयो-गमनं समायः, एष चान्यासामपि साधुक्रियाणामुपलक्षणम् , सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात् । समायेन निवृत्तं समाये वा भवं सामायिकम् , यद्वा समानां -ज्ञान-दर्शन-चारित्राणामायो लाभः समायः, समाय एव सामायिकम् : विनयादेराकृतिगणतया स्वार्थे इकण | तच्च सर्वसावद्यविरतिरूपम् , यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकम् , तथापि छेदादिविशेष विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते । प्रथम पुनरविशेषणात्सामान्यशब्द एवावतिष्ठते सामायिकमिति । तच्च द्विधा-इत्वरं यावत्कथिकं च । तत्र स्वल्पकालभावि इत्वरम् । इदं च भरतैरावतेषु प्रथम पश्चिमतीर्थकरतीर्थे धनारोपितमहाव्रतस्य शेशस्य विज्ञेयम् , अत्र जन्मनि यावज्जीवितकथाऽस्त्यात्मन
१५२द्वारे काल्यवृत्तविवृत्तिः गाथा ९७१९७९ प्र.आ. २९२