________________
१५२द्वारे त्रैकाल्य
प्रवचनसारोद्धारे सटीके द्वितीयःः
कृष्णादिद्रव्याणि च केचिद् 'योगपरिणामो लेश्या' [ ] इतिवचनाद्योगान्तर्गतद्रव्याण्याहुः, 'अन्ये तु 'सकलकर्मप्रकृतिनिःस्यन्दरूपाणि', अपरे पुनः 'कार्मणशरीरवत्पृथगेव कर्माष्टकात्कार्मणवर्गणानिष्पन्नानि कृष्णादिद्रव्याणी' ति प्रतिपादयन्ति । तत्त्वं तु तीर्थकृतो विदन्तीति । एताश्च परिणामविशेषात्मिका लेश्याः षड् भवन्ति । तद्यथा--कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या, 'सिय' ति सितलेश्या, शुक्ललेश्येत्यर्थः । तत्र कृष्णद्रव्यात्मिकाकृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्येत्यर्थः । एवं नीललेश्येत्यादिपदेष्वपि भावनीयम् , तासु चाद्यास्तिम्रोऽशुभाः, अपरास्तु तिम्रः शुभाः । एतासां च विशेषतः स्वरूपनिरूपणार्थ जम्बूखादकपटपुरुपीरष्टान्तो ग्रामघातकदृष्टान्तश्चोच्यते ।
तथाहि-- कस्मिश्चित्कानने क्षत्क्षामकुक्षयः पट् पुरुषाः सुपरिपक्वसरसफलभरावनमित--सकलशाखं कल्पशाखिसक्षमेकं जम्वृवृक्षमद्राक्षुः । ततः सर्वैरपि प्रमुदितैः प्रोक्तम् अहोऽवसरप्राप्तमस्य दर्शनम् , अपनयामो बुभुक्षाम् , भक्षयामः स्वेच्छयाऽतुन्छान्यम्यस्वादुफलानीत्यैकमत्ये सति तन्मध्ये क्लिष्टपरिणामेनैकेनोक्तं--'युक्तमिदं केवलमस्मिन्ननोकहे दुरारोहे समारोहतां जीवितव्यस्यापि संशयः; तस्मात्तीक्ष्णधारः कुठारैरमुमूलत एव कर्तयित्वा तिर्यक्प्रपात्य सुखेनैव सकलानि फलान्यभ्य'वहरामः । एष एवंजातीयः कृष्णलेश्यापरिणामः । द्वितीयेन तु किश्चित्मशूकेनोक्तं--'किमस्माकमेतेनातिमहता पादपेन छिन्नेन ? महीयसी शाखामेवैको कर्तयित्वा फलान्यास्वादयामः ।' एवंप्रकारो नीललेश्यापरि
..१ विशेषार्थ द्रष्टव्या प्रज्ञापनावृत्तिः, प. ३३१ ।। २ केचित कम्मिं० मु.11३ वहागमः एष स एवं-सि. वि. ॥ ४ सीमस्य-मु. 1 महीय-सी-जे ।।
विवृतिः गाथा ९७१ ९७९ प्र.आ. २९०
॥२१२॥