________________
प्रवचनसारोद्धारे सटीके
१५२ द्वार
काल्यवृत्त विवृतिः गाथा ९७१.
द्वितीयः खण्ड:
॥२०९॥
द्रव्याद्गलन्ति-वियुज्यन्ते, किञ्चित्तु द्रव्यं स्वसंयोगतः पूरयन्ति-पुष्टं कुर्वन्ति, पुद्गलाश्च तेऽस्तिकायश्च पुद्गलास्तिकायः।
तथा जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवास्ते च तेऽस्तिकायश्च जीवास्तिकायः, प्रत्येकमसङ्ख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः । अत्र च जीवपुद्गलानां गत्यन्यथानुपपत्तेधर्मास्तिकायस्य, तेषामेव स्थित्यन्यथानुपपत्तेरधर्मास्तिकायस्य, जीवादिपदार्थानामाधारान्यथानुपपत्तेराकाशास्तिकायस्य, बकुलाशोकचम्पकादिपुष्पफलप्रदाननैयत्यान्यथाऽनुपपत्तेः कालस्य, घटादिकार्यान्यथानुपपत्तेः पुद्गलास्तिकायस्य, प्रतिप्राणि स्वसंवेदनसिद्धचैतन्यान्यथानुपपत्तेश्च 'जीवास्तिकायस्य सत्त्वं समवसेयमिति ।।९७३॥
अथ नव पदान्याह-'जीवाजीवा' गाहा, जीवाः-सुखदुःखोपयोगलक्षणाः, अजीवा:-तद्विपरीता धर्मास्तिकायादयः, पुण्यं-शुभप्रकृतिरूपं कर्म, पापं-तद्विपरीतं कर्मैव, आश्रवति-आगच्छति कर्मानेनेत्याश्रवः, शुभाशुभकर्मोपादानहेतुः हिंसादिः, संवरणं संवरो-गुप्त्यादिभिराश्रवनिरोधः, निर्जरणं निर्जराविपाकात्तपसो वा कर्मणां देशतः क्षपणम् , बन्धो-जीवकर्मणोरत्यन्तसंश्लेषः, मोक्षः-कृत्स्नकर्मक्षयादास्मनः स्वात्मन्यवस्थानम् , इत्येतानि नवसङ्ख्यानि पदानि-तत्त्वानि जिनमते-अर्हत्प्रवचने विज्ञेयानीति । इह च आश्रवन्धपुण्यपापानि मुख्य संसारकारणमिति हेयानि, संवरनिर्जरे मुख्यं मोक्षकारणम् , मोक्षस्तु मुख्यं साध्यमित्येतानि त्रीण्यप्युपादेयानीत्येवं शिष्यस्य हेयोपादेयतापरिज्ञानार्थ मध्यमप्रस्थानापेक्षया
१ जीवादका ख.॥
प्र.आ. २८९
॥२०॥