________________
जान
सारोद्वारे
सटीके
द्वितीयः
खण्ड:
॥२०८॥
स्तिकाय जीवास्तिकाय स्वरूपाणि षड् द्रव्याणि । तत्र जीवानां पुद्गलानां च स्वत एव गतिक्रियापरिणतान 'तत्स्वभाववरणात्मपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां कायः - सङ्घातोऽस्तिकायः । ततो धर्मश्वासावस्तिकायश्च धर्मास्तिकायः । सकललोकव्यापी असंख्येयप्रदेशात्मकोऽमूर्ती द्रव्यविशेष इत्यर्थः ।
जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावेऽधरणादधर्मः स चासावस्तिकायश्चाधर्मास्तिकायः । किमुक्तं भवति ? जीव- पुद्गलानां स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भको मूर्ती लोकव्यापी 'असंख्येयप्रदेशात्मकोऽधर्मास्तिकायः । लोकमात्रत्वं चानयोरेतदवष्टम्भकाकाशदेशस्यैव लोकत्वात्, अलोकव्यापित्वे त्वनयोर्जीव - पुद्गलानामपि तत्र प्रचारप्रसंगेन तस्यापि लोकत्वप्राप्तेरिति ।
' तथा आङिति मर्यादया तत्संयोगेऽपि स्वकीयस्त्रकीय स्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपाप्राप्तिलक्षणया क्राशन्ते-स्वभावलामेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशम् । यदा त्वभिविधावाङ्, तदाऽऽङिति सर्वभावाभिव्याप्त्या काशते - प्रतिभासते इत्याकाशम् तच्च तदस्तिकायश्चाकाशास्तिकायो, लोकालोकव्यापी अनन्तप्रदेशात्मको द्रव्यविशेष इत्यर्थः ।
,
तथा कलनं - समस्तबस्तु स्तोमस्य सङ्ख्यानमिति कालः, अथवा कलयन्ति समयोऽस्यानेन रूपेणोस्पन्नस्यावलिका मुहूर्तादि वा इत्यादिप्रकारेण सर्वमपि सचेतनाचेतनं वस्त्ववगच्छन्ति केवल्यादयोऽनेनेति काल:- 'समयावलिकादिरूपो द्रव्यविशेषः ।
तथा पूरण- गलनधर्माण: पुद्गलाः- परमाण्वादयोऽनन्ताणुस्कन्धपर्यन्ताः । एते हि कुतश्रिद् १. च तत्स्व० जे० ॥ २असख्यात० सि. ॥ ३ भद्य आङिति - जे. ॥ ४ समयावलिकारूपो - मु. ॥
१५२ द्वारे त्रैकाल्य
वृत्त
विवृत्तिः
गाथा
९७१
९७९
प्र. आ.
२८९
॥२०८॥