SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ वन काया-धर्मास्तिकायादयः, तथा पञ्चशब्दस्य प्रत्येकमत्रापि योजनात्पश्च व्रतभेदाः-प्राणिवधविरमणादया, पञ्च समितिभेदा-ईर्यासमित्यादयः, पश्च गतिभेदा-नरकगत्यादयः, पञ्च ज्ञानभेदाः-मतिज्ञानादयः, पञ्च चारित्रभेदाः-सामायिकादयः, इत्येते पूर्वोक्ताः सर्वेऽपि पदार्थास्त्रिभुवनमहितैःचिलोशाचितैरईति- तीर्थकरीस-हवालाविककर्मक्षयजन्यसुरविरचितचतुस्त्रिंशदतिशयस्वरूपपरमैश्वर्योपशोभितमोक्षमूल-निर्वाणकारणं प्रोक्तम्-उपदिष्टम् । अतो यः पुमान् मतिमान-प्रवेकविवेक'कलितएतान् प्रत्येतिस्वरूपतोऽवगच्छति श्रद्धाति-इदमेव तत्त्वमित्यात्मनो रोचयति स्पृशति च-यथायथं सम्यगासेवते, सवै स्फुट 'शुद्धदृष्टिः शुद्धा-मिथ्यात्वमलानाविला दृष्टिः-सम्यक्त्वं यस्य स शुद्धदृष्टिरितिः ॥९७१।। अथैनं वृत्तं व्याचिख्यासुः कालत्रिक प्रतिपादयन्नाह-'एयरस'गाहा, एतस्य-पूर्वोक्तस्य त्रैकाल्यमित्यादेः स्रग्धरावृत्तस्येद-वक्ष्यमाणं विवरण-व्याख्यानं विज्ञेयमिति शेषः । तत्र त्रैकाल्यमतीत-वर्तमानास्यां भविष्यद्युक्ताभ्यां भवति, अतीत-वर्तमान-भविष्यवक्षणास्त्रयः काला इत्यर्थः । तत्रातिशयेन इतोगतोऽतीतो, वर्तमानत्वमतिकान्त इत्यर्थः । वर्तत इति वर्तमाना-साम्प्रतमुत्पन्नः, सर्वसूक्ष्मनिरंशसमयमात्रमान इति भावः । भविष्यतीति भविष्यन्-वर्तमानत्वं न प्राप्तोऽनागत इति हृदयम् । द्रव्यषट्कं पुनरिंदवक्ष्यमाणम् ॥९७२॥ तदेवाह-'धम्मत्थिकाय० गाहा, धर्मास्तिकाया-ऽधर्मास्तिकाया-ऽऽकाशास्तिकाय-काल-पुद्गला १५२द्वारे काल्यवृत्तविवृत्तिः गाथा ९७१ ०७॥ प्र.आ. । २८९ . १०कलित-खं.सं. नास्ति। ॥२०७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy