________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
॥२०३॥
'ननु योनि - कुलयोः कः प्रतिविशेषः १, उच्यते योनि जीवानामुत्पत्तिस्थानम् । यथा वृश्चिकागोमयादि कुलानि तु योनिप्रभवानि, तथाहि एकस्यामेव योनावनेकानि कुलानि भवन्ति, यथा छगयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, यदिवा तस्यैव वृविकादेर्गोमयाद्येकयन्युत्पन्नस्यापि कपिल रक्तादिवर्णभेदादनेकविधानि कुलानीति ।
अथ प्रज्ञापनानुसारेण योनिविषयोऽपरोऽपि विशेषः कश्चिदुपदर्श्यते यथा शीतोष्णमिश्र• भेदात् त्रिधा योनिः । तत्र नारकाणां शीता उष्णा च 'आद्यकासु तिसृपृष्णवेदनासु पृथिवीषु शीता, चतुर्थ्यां बहुपरितनेषु उष्णवेदनेषु नरकावासेषु शीता, अभः स्वोकेट शीतवेदनेष उष्णा । पञ्चम्यां "बहुषु शीतवेदनेषु उष्णा, स्तोकेषु उष्णवेदनेषु शीता, पष्ठी - सप्तम्योच शीतवेदनयोर्नारकाणां योनिरुष्णैव शीतयोनिकानां हि उष्णवेदनाऽभ्यधिका भवति, उष्णयोनिकानां तु शीतवेदना । नारकाणां च यथा वेदनामापद्यते प्रायः सर्वं तथैव परिणमति ततो वेदनाक्रमप्रातिकूल्येन योनि क्रमसम्भवः । सुराणां गर्भजतिर्यङनराणां च शीतोष्णरूपोमयस्वभावा योनिः नैकान्तेन शीतं नाप्युष्णम्, किन्त्वनुष्णाशीतं तदुपपातक्षेत्रमिति भावः । पृथिव्यम्बु- वायु-वनस्पति-द्वि-त्रि- चतुरिन्द्रिय- सम्मूच्छिमतिर्यक्पञ्चेन्द्रिय सम्मूच्छिममनुष्याणामुपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिधा योनिः केपाचच्छता केपाचिदुष्णा, केषाञ्चिन्मिश्रेति, तेजस्कायिकानामुष्णैव योनिः, उष्णस्पर्शपरिणत एव क्षेत्रे तेषामुत्पत्तेः ।
१ तुला जीवसमासवृतिः ५. ३१ ॥ २ तुला समयसुन्दरगणिकृतं श्रीविशेषपणशतकम् प. ४५ ॥ ३ प्रज्ञापना पद ९/ सू. ७३, प्र. १९९ द्रष्टव्यम् । जीवसमासवृत्तिः गा. ४७, ४६, ४५ द्रष्टव्या ॥ ४ भाषासु-सु. ॥ ५ नार० खं. ॥
१४८ द्वारे
८४ योनिलक्षाः
गाथा
९६८
९७०
प्र. आ.
२८७
॥२०३॥