________________
प्रवचनसारोद्धारे सटीके
१४९द्वारे सम्यक्त्वस्य एकादिभेदाः गाथा ९४२.
द्वितीयः खण्ड:
अनभिगृहीतो--न विद्यतेऽभीत्याभिमुख्येनोपादेयतया गृहीतं ग्रहणं ज्ञानमस्येत्यनभिगृहीतः, पूर्वमनभिगृहीतकुदृष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः, अनेन तु परदर्शनपरिज्ञानमात्रमपि निपिद्धमिति विशेषः । इदमत्र तात्पर्यम् 'य उक्तविशेषणो सझेपेणेव चिलातोपुत्रवदुपशमादिपदत्रयेण तत्वरुचिमवाप्नोति स सझेपरुचिरुच्यते इति ।।९५९॥
धर्मरुचिमाह--'जो अस्थिकाय.' गाहा, यः खलु जीवोऽस्तिकायाना-धर्मास्ति'कायादीनां धर्म--गत्युपष्टम्भकत्वादिरूपं स्वभाव श्रुतधर्मम्--अङ्गप्रविष्टाद्यागमस्वरूपं चारित्रधर्म च-सामायिकादिकं जिना. भिहितं -तीर्थकृदुक्तं श्रदधाति--तथेति प्रतिपद्यते स धर्मरुचिरिति ज्ञातव्यः । इह च शिष्यमतिव्युत्पादनार्थमित्थमुपाधिभेदेन सम्यक्त्रभेदाभिधानम् , अन्यथा हि निसर्गायदेशयोरधिगमादौ वा क्वचित्केपाश्चिदन्तर्भावोऽस्त्येवेति ।।९६०॥
अथ पूचोंक्तान्येव क्षायिकादीनि त्रीणि सम्यक्त्वानि प्रसङ्गतो नारकादिजीवेषु चिन्तयन्नाह'आई पुढवीसु' इत्यादिगाथाद्वयम् , आद्यासु तिसृषु पृथिवीपु-रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभासु
वयउवसमवेयग' ति सूचकत्वात् सूत्रस्य क्षायिकमौपशमिक वेदकं च सम्यक्त्वं भवति, इह च वेद्यन्ते-अनुभूयन्ते शुद्धसम्यक्त्वपुजपुद्गला अस्मिन्निति वेदकं झायोपशमिकं सम्यक्त्वमुच्यते, औपशमिकसायिकसम्यक्त्वयोः पुद्गलवेदनस्य सर्वथैवाभावात् , यत्पुनः क्षप्यमाणसम्यक्त्वपुञ्जपुद्गलचरमग्रासलक्षणं वेदकसम्यक्त्वं पूर्व मुक्तं तदिह पृथग न विवक्षितम् , पुद्गलवेदनस्य समानत्वेन क्षायोपशमिकसम्यक्त्व
१ यः उक्तविशेषणो सं० खं. सं. ॥ २ याना-खं. ॥ ३ खयोव० मु.। चेयउयसमत्ति-सि.॥
ग्र. आ. २८५
स
Wariamwitwanolisanile
MAINMEN000