________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय: खण्ड:
॥ १९५ ॥
कानि-उत्तराध्ययन- नन्यध्ययनादीनि दृष्टिवादा-परिकर्मसूत्रादिः, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थम्, शब्दादुपाङ्गानि चौपपातिकादीनि स भवत्यधिगमरुचिः ॥ ९५६॥
विस्ताररूपिमाह-- 'दव्या मित्यादि द्रव्याणा-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावा:-- पर्यायाः सर्वप्रमाण:- अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा: - यस्य प्रमाणस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः, 'सव्वाहिं' ति सर्वैश्व नयविधिभिः - नैगमादिनयप्रकारैः, अम्र भावमयम्, अमु ं चायं 'नय भेद इच्छतीति स विस्ताररुचिरिति ज्ञातव्यः सर्ववस्तुपर्यायप्रपञ्चावगमेन तस्य रुचेरतिविमलरूपतया भावात् ॥ ९५७||
'क्रियारुचिमाह - 'नाणे' इत्यादि, ज्ञाने तथा दर्शनं च चारित्रं च दर्शन- चारित्रं समाहारद्वन्द्वस्तस्मिन् तथा तपसि विनये च, तथा सर्वासु समितिषु - ईर्यासमित्यादिषु सर्वासु च गुप्तिषु-मनोगुप्तिप्रभृतिषु, 'सच्च' ति पाठे तु सत्या - निरुपचरितास्ताच ताः समितिगुप्तयश्च यदिवा सत्यं च अविसंवादयोगाद्यात्मकं समितिगुप्तयश्च सत्य समिति गुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति १यस्य भावतो ज्ञानाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम, इह च चारित्रान्तर्गतत्वेऽपि तप:प्रभृतीनां पुनरुपादानं विशेषत एष मुक्त्यङ्गत्वख्यापनार्थम् ।। ९५८ ||
सङ्क्षेपरुचिमाह-- 'अणभिगहिय.' गाहा, अनभिगृहीता-अनङ्गीकृता कुत्सिता दृष्टि: सौगता - दिदर्शनं येन स तथा अविशारदः -- अकुशलः प्रवचने-जिनप्रणीते शेषेषु च कपिलादिप्रणीतेषु प्रवचनेषु
१ नयभेदमि (द ३) च्छवीति मु. ॥
१४९ द्वारे
सम्यक्त्व
स्य एकादि.
भेदाः
गाथा
९४२
१६.२
प्र. भा
२८४
॥ १९५॥