SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे १४९ द्वारे सम्यक्त्वस्य एकादि भेदाः सटीके द्वितीयः खण्म: ९२४. जीवादिपदार्थाश्चतुर्विधान-द्रव्य-क्षेत्र काल-भावभेदतो नाम-स्थापना-द्रव्य-भावभेदत्तो वा चतुष्प्रकारान् स्वयमेव-परोपदेशनिरपेक्षं जातिस्मरणप्रतिभादिरूपया स्वमत्यैव श्रद्दधाति, केनोल्लेखेन श्रद्दधाति ? तत आह-एवमेतत् जीवादि यथा जिनेप्टं नान्यथेति, चः समुचये एष निसर्ग रुचिरिति ज्ञातव्यः ।।९५१॥ उपदेशरुचिमाह-एए चेव उ' गाहा, एतांश्चैव अनन्तरोक्तान् , तुः पूरणे, भावान-जीवादीनुपदिष्टान-कथितान् परेण-अन्येन श्रद्दधाति-तथेति प्रतिपद्यते । कीदृशा परेण ?-छादयतीति छमघातिकर्मचतुष्टयम, तत्र लियतीति छद्रस्था-अनुत्पन्चकेवलम्तेन, जयति रागादीनिति जिनस्तेन, च-उत्यकेवलज्ञानेनताथकदादिनी, छअस्थम्य तु प्रागुपन्यासस्तत्पूर्वकत्वाज्जिनस्य प्राचुर्येण वा तथाविधोपदेतृणाम् , स ईक्किमित्याह-उपदेशरुचिरिति ज्ञातव्यः ॥९५२।। ____ आज्ञारुचिमाह-'रागो' इत्यादि, रागः-अभिष्वङ्गो द्वेषः-अप्रीतिः, मोहः-शेषमोहनीयप्रकृतयः, अज्ञान-मिथ्याज्ञानरूपं यस्यापगतं नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते । अपगत'शब्दश्च लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभि सम्बध्यतेः एतदपगमाञ्च 'आणाए' ति "अवधारणफलत्वाद्वाक्यस्य आज्ञयेव केवलया तीर्थकरादिसम्बन्धिन्या रोचमानः कचिदपि कुग्रहाभावात् प्रवचनोक्समर्थजातं तथेति प्रतिपद्यमानो माषतुषादिवत् , स खलु-निश्चितमाज्ञारुचिः नामेत्यभ्युपगमे, ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः ॥९५३।। १०चितिव्यः-मु, सि.1 तुलना-प्रज्ञापनावृत्तिः प. ५९ A ॥ २ कीदृशेन-सु.।। ३ शब्दस्य-मु.॥४ सम्बन्धःमु. सि.॥ ५ अविधा. जे. ।। ९६२ प्र. आ. ।२८४ ॥११॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy