________________
प्रवचन
सारोद्धारे
सटीके
१४९द्वारे सम्यक्त्वस्य एकादि मेदाः गाथा ९४२.
द्वितीयः खण्ड:
१८८॥
९६२
भागन्यूनसागरोपमकोटीकोटिप्रमाणता नीतासु अपूर्वकरणेन भन्नई करणं तु परिणामो' [ ] इतिवचनादध्यवसायविशेषरूपेणातिप्रकृष्टधनरागद्वेषपरिणामजनितस्य वज्राश्मवद् दुर्भेद्यस्य कर्मग्रन्थे:दं विधायानिवृत्तिकरणं प्रविशति । तत्र च प्रतिसमयं विशुद्धयमानस्तान्येव कर्माणि 'नितरां क्षपयन् , उदीणं च मिथ्यात्वं वेदयन् , अनुदीर्णस्य तु तस्योपशमलक्षणमन्ती इतकालमानमन्तरकरणं करोति ।
तस्य चायं विधिः-यदुत अन्तस्करणस्थितेमध्यावलिकं गृहीत्वा "गृहीत्वा प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति । एवं च प्रतिसमयं तावत्प्रक्षिपति यावदन्तरकरणदलिक सकलमपि क्षीयते । अन्तमहूर्तेन च कालेन सकलदलिकक्षयः । ततस्तस्मिन्ननिवृत्तिकरणेऽवसिते उदीर्णेच मिथ्यात्वेऽनुभवतः क्षीणे अनुदीर्णे च परिणामविशुद्धिविशेषतो विष्कम्भितोदये ऊपरदेशकल्पं मिथ्यात्वविधरमासाद्य औपशमिकं सम्यक्त्वमधिगच्छति । तम्मिश्च स्थितः सत्तायां वर्तमान मिथ्यात्वं विशोध्य पुञ्जत्रयरूपेणावश्यं व्यवस्थापयति । 'यथा हि कश्चिन्मदनकोद्रवानौषधवशेन शोधयति, ते च शोध्यमानाः केचिन्छुद्धयन्ति केचिदर्धशुद्धा एव भवन्ति केचित्तेष्वपि सर्वथैव न शुद्धयन्ति, एवं जीवोऽप्यध्यवसायविशेषतो जिनवचनरुचिपतिबन्धकदुष्टरसोच्छेदकरणेन मिथ्यात्वं शोधयति । तदपि शोध्यमानं शुद्धमर्धशुद्धमशुद्धं च त्रिधा जायते । तत्र शुद्धपुञ्जः सर्वज्ञधर्म सम्यक्प्रतिपत्यप्रतिबन्धकत्वेनोपचारात् सम्यक्त्वपुञ्ज उच्यते । द्वितीयस्तु अर्धशुद्ध इति मिश्रपुञ्ज उच्यते । तदुदये तु जिनधर्मे औदासीन्यमेव भवति । अशुद्धस्त्वहंदादिषु मिथ्याप्रति१ निरन्तरं-मु.॥ २ च-मु. नास्ति ।। ३ प्रविशति-मु. सि. ॥ ४ गृहीत्वा मु. नास्ति ।। ५ तथा-रत्र.सं. सि.॥
प्र.आ. २८२
॥१८॥
SEARS
IPASRARRES
OTHORNER