________________
। प्रवचन
सारोद्वारे
सम्यक्त्वस्य एकादि भेदाः माथा ९४२.
खण्डः
॥१८६॥
सास्वादन-वेदकभेदात्पश्चविधम् , एतदेव प्रत्येकं निसर्गा-ऽधिगममेदादशविधमिति । कथं पुनर्द्विविधादिभेदं सम्यक्त्वमित्याह-सम्यग्-अवैपरीत्येन आगमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदै रिति भावः ॥९४२॥ .. अथैनामेव गार्था स्फुटतरं व्याख्यानयनाह- 'एगविहं' गाहा, एकविधम्-एकप्रकारमुपाधिभेदाविवक्षया निर्मेदमित्यर्थः । 'सम्यग् रुचिः सम्यग-अज्ञान-संशय विपर्यासनिरासेन इदमेव तच्चमिति निश्चयपूर्विका जिनोदितजीवादिपदार्थेष्वभिप्रीतिः । जिनोक्तानुमारितया तत्त्वार्थश्रद्धानरूपमेकविधं सम्यक्त्वमिति भावः । तथा निसर्गा-ऽधिगमाभ्यां तन-सम्यक्त्वं भवेद् द्विविधम् , तत्र निसर्गः-स्वभावो गुरूपदेशादिनिरपेक्षस्तस्मात्सम्यक्त्वं भवति, यथा नारकादीनाम् ' हिमो-गुरूपदेशादिर रमात्मयतत्वं भवतीति प्रतीतमेव । अयमभिप्रायः-तीर्थकराद्युपदेशदानमन्तरेण स्वत एव जन्तीयकर्मोपशमादिभ्यो जायते तनिसर्ग: सम्यक्त्वम् , यत्पुनस्तीर्थकराद्युपदेश-जिनप्रतिमादर्शनादिवाह्यनिमित्तोपष्टम्भतः कोपशमादिना प्रादुर्भवति तदधिगमसम्यक्त्वमिति । तथा त्रिविधं तत्-सम्यक्त्वं क्षायिकादि; अथवा त्रिविधं कारकादि ॥९४३।।
तत्र क्षायिक-क्षायोपशमिके व्याख्यातुमाह-सम्मत्त' गाहा, सम्यक्त्व-मिश्र-मिथ्यात्वकर्मक्षयाऋणन्ति तीर्थकरगणधराः क्षायिकं सम्यक्त्वम् , त्रिविधस्यापि दर्शनमोहनीयस्य अयेण-निमलोच्छेदेन निवृत्तं क्षायिकम् , अयमर्थ:-अनन्तानुचन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्व-मिश्र-सम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीयकर्मणि सर्वथा क्षीणे क्षायिक सम्यक्त्वं भवतीति । तथा मिथ्यात्वस्य-मिथ्याबमोहनीयकर्मण उदीर्णस्य क्षयादनुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विष्कम्भितोदयस्वरूपाच्च
प्र. आ. २८१
॥१८६॥