________________
प्रवचनसारोद्धारे सटीके
१४८द्वारे सम्यक्त्व. भेदाः ६७ गाथा ९२३.
द्वितीय:
॥१८॥
मित्याद्यसङ्गत सङ्गिरन्तः सौगतविशेषा व्युदस्ताः । ते हि प्रदीपस्येवास्य जीवस्य सर्वथा ध्वंस एव निर्वाणमाहुः । तथा च तद्वचा
"दीपो यथा नि तिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित् , स्नेहक्षयात्केवलमेति शान्तिम् ॥१॥ जीवस्तथा नि तिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काचिद्विदिशं न काञ्चित् , क्लेशक्षयात्केवलमेति शान्तिम् ।।२॥"
एतच्चायुक्तम् , दीक्षादिप्रयासवैयात् । प्रदीपदृष्टान्तस्याप्यसिद्धत्वात् । तथाहि-न प्रदीपानलस्य सर्वथा विनाशः, किन्तु तथाविधपुद्गलपरिणामवैचित्र्यात् त एवं पाचकपुद्गला भास्वरं रूपं परित्यज्य ताममं रुपान्तरमाप्नुवन्ति तथा च विध्याते प्रदीपेऽनन्तरमेव तामसपुद्गलरूपो विकारः समुपलभ्यते, चिरं चासौ पुरस्ताद्यनोपलभ्यते तत्सूक्ष्मसूक्ष्मतरपरिणामसद्भावादअनरजोवन , अञ्जनस्य हि पवनेनापडियमाणस्य यत्कृष्णरज उड्डीयते तदपि परिणामसौक्षम्यान्नोपलभ्यते न पुनरसच्चादिति । ततो यथाऽनन्तरोक्तस्वरूपं परिणामान्तरं प्राप्तः प्रदीपो निर्वाण इत्युच्यते तथा जीवोऽपि कर्मविरहितः केवलामूर्तजीवस्त्ररूपलक्षणं परिणामान्तरं प्राप्तो निर्वाणमुच्यते । तस्मात् दुःखादिक्षयरूपा सतोऽवस्था निर्वाणमिति स्थितम् ५ ।
प्र. आ. २७९
॥१८॥
.
...
.SHA