SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १४८ द्वारे सम्यकबभेदाः ६७ सटीके गाथा हि रोगी रोगनिवृत्तिमिच्छन्नपि रोगाभिभूतत्वाद् अपथ्यक्रियानिबन्धनं भाविनमपाय जाननपि चापथ्यक्रियामासेवते तद्वदेषोऽपि जीवो मिथ्यात्वाद्यभिभूतत्वात् कथंचित् जानन्नपि दुःखफलं कर्म करोतीति ३। - कयं च वेएई' त्ति स च जीवः कृत-स्वयमभिनिर्वचितं शुभाशुभं कर्म वेदयते-स्वयमेवोपभुङ्क्ते सारोद्धारे। अनुभवलोका-ऽऽगमप्रमाणतस्तथैवोपपद्यमानत्वात् । तथाहि-यदि 'स्वकृतकर्मफलभोक्तृत्वं जीवस्य नाभ्युपगम्यते ततः सुखदुःखानुभवो मुक्ता-ऽऽकाशयोखि तस्य न स्यात् । सुखदुःखानुभवकारणसातासातवेदनीयकोपभोगाभावात् । अस्ति चायं सुखदुःखानुभवः प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धत्वात् । लोकेऽप्येष जीवः प्रायो भोक्ता सिद्धः, तथाहि-सुखितं कञ्चन पुरुषं दृष्ट्या लोके वक्तारो भवन्ति-पुण्यवानेष यदित्थं ॥१७९॥ सुखमनुभवतीति तथा आगमेषु च जैनेतरेषु भोक्ता सिद्धः, A 'सव्यं च पएसतया भुजइ कम्ममणभावओ नियं[ ] तथा 'नाभुक्तं क्षीयते कर्म, कोटिकल्पशतैरपि' । इत्यादिवचनात् । न चैवं लोकप्रतीता. वागमेषु या वर्तमानेषु कस्यचिद्विवेकचक्षुयो विप्रतिपत्तिरस्ति । कृतवैफल्यप्रसङ्गात् । न चैतद्युज्यते । बणिकृषीवलादीनां स्वकृत शुभाशुभकर्मफलभोगस्य साक्षादेव दर्शनात् । तथा च सति सिद्ध एष जीवः । स्वकृतकर्मणां भोक्तेति । अनेन चाभोक्तजीववादी दुर्नयो निराकृतः ४।। 'अस्थि निव्याण' ति अस्य जीवस्यास्ति-विद्यते निर्वाणं-मोक्षः, सत एव जीवस्य राग-द्वेष-मदमोह-जन्म-जग-रोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावत् । एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाण १ स्वयंकृत मु.सि.।। २ सुखिन-मु.॥ ३ मइयं-मुः। निययं-सं॥ ४०शुभकर्म० खं. सं.॥ A सर्वच प्रदेशतया भुज्यते कर्म, अनुभावतो निचितम् ।। प्र.आ. ॥१७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy