________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
खण्ड:
॥१७८॥
चैतन्यं च तद्विलक्षणम्, ततः कथमनयोः कार्य-कारणभावः १ न भूत भूतकार्य वा चैतन्यम्, अथ चास्ति प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धम्, अतो यस्येदं स जोव इति, अनेन च नास्तिक मतमपहस्तितम् १ | "frees' f सच जीवो नित्यः- उत्पत्ति विनाशविरहितः, तदुत्पादककारणाभावात् सतः सर्वथा विनाशायोगाच्च । अनित्यत्वे हि जीवस्य बन्ध-मोक्षाधेकाधिकरणत्वाभावप्रसक्तेः । तथाहि यद्यात्मा नित्यो नाभ्युपगम्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना ज्ञानक्षणा एव तथा सत्यन्यस्य बन्धोऽन्यस्य मुक्तिः, अन्यस्य क्षुदन्यस्य तृप्तिः, अन्योऽनुभविताऽन्यः स्मर्ता अन्यचिकित्सादुःखमनुभवति अन्यो व्याधिरहितो जायते अन्यस्तपः परिक्लेशमधि सहतेऽपरः स्वर्गसुखमनुभवति, अपरः शास्त्रमभ्यसितुमारभतेऽन्योऽधिगतशास्त्रार्थो भवति । न चैतद्युक्तम् अतिप्रसङ्गादिति । एतेन शीडोदनिसिद्धान्तध्वान्तमपध्वस्तम् २ |
'कुणह' सि स स जीवः करोति - मिथ्यात्वाऽविरति कषायादिवन्ध हेतुयुक्ततया तत्तत्कर्माणि निर्वर्तयति । प्रतिप्राणिप्रतीतविचित्रसुखदुःखाद्यनुभवान्यथानुपपत्तेः । तथाहि-- लोके सुखं दुःखं वा चित्रमनुभूयते न चित्रसुखदुःखानुभयो निर्हेतुकः, सर्वदा 'सद्भावाभावप्रसङ्गात् । 'नित्यं सत्यमचं बाहेतोरन्यानपेक्षणा' [प्रमाणवार्तिक ३।३५ ] | इति न्यायात् । तस्मादस्य सुखदुःखानुभवस्य स्वकृतमेव कर्म हेतुरिति सिद्धो जीवः कर्मणां कर्तेति कापिलप्रतिकल्पनाप्रतिक्षेषः । नन्वयं जीवः सुखाभिलाषी न कदाचनाप्यामनो दुःखमाशास्ते ततो यदि स्वकर्मणामेष कर्ता ततः कथं दुःखफलं कर्म करोतीति ९, उच्यते, यथा १०रि० मु चास्ति ॥ २ सद्भावाप्र० सं । सद्भावप्र० सिं. ॥ ३० खं. सं. नास्ति ।। ४ करोति-मु. ॥
१४८द्वारे
सम्यक्त्व
मेदाः६७
गाथा
९२६
९४१
प्र. आ. २७८
॥१७८॥