________________
प्रवचन- सारोद्धारे सटीके द्वितीयः
खण्ड:
॥१७७॥
क्त्वद्वारशून्यमशक्याधिगमं स्यादिति । 'पइहाण' ति प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठान-पीठम् , ततः प्रतिष्ठानमिव प्रतिष्ठानम् , यथा हि पयापर्यन्तपृथ्वीतलगतगर्तापूरकरहितः प्रासादः सुदृढो न भवति, १४८ द्वारे तथा धर्मदेवस्य हर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानपरित्यक्तं निश्चल न भवदिति । माहारो' ति आधार सम्यक्त्वइव आधार आश्रय इतियावत् । यथा हि धरातलमन्तरेण निरालम्वं जगदिदं न तिष्ठति, एवं धर्मजगदपि मेदाः ६७ सम्यक्त्वलक्षणाधारव्यतिरेकेण 'नावतिष्ठतेति : 'भायणं' ति भाजनमिव भाजनं पात्रमित्यर्थः । यथा हि गाथा. कुण्डादिभाजनविशेषविवर्जितं क्षीरादिवस्तुनिकुरम्बं विनश्यति, एवं धर्मवस्तुनियहोऽपि सम्यक्त्वभाजनं विना ९२६. विनाशमासादयेदिति। 'निहि' ति निधिरिव निधिः, यथा हि निरवधिनिधिव्यतिरेकेण महार्हमणिमौक्तिक
९४१ कनकादिद्रव्यं न प्राप्यते, तथा सम्यक्त्वमहानिधानानभिगतौ चारित्रधर्मवित्तमपि निरुपमसुखसम्पादकं आ.
२७८ न प्राप्यते इति । इत्येताभिः षड्भिर्भावनाभिर्भाव्यमानमिदं सम्यक्त्वमविलम्बमसममोक्षसुखसाधकं भवतीति ।।१४०॥
'छहाणं' ति प्रपञ्चयितुमाह-'अत्थी'त्यादि, अस्ति-विद्यते चशब्दस्यावधारणार्थत्वादस्त्येव जीव इति गम्यते । प्रतिप्राणि स्वसंवेदनप्रमाणप्रसिद्धचैतन्यान्यथानुपपत्तेः । तथाहि-न चैतन्यमिदं भूताना धमः, तद्भर्यत्वे सति पृथिव्याः काठिन्यस्येव तस्य सर्वत्र सर्वदा चोपलम्भप्रसङ्गात् , न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलम्भाव , नापि चैतन्यमिदं भूतानां कार्यम् , अत्यन्तवैलक्षण्यादेव कार्य-कारणभावस्याप्यनुपपत्तेः, तथाहि-प्रत्यक्षत एवं 'काठिन्यावबोधस्वभावानि भूतानि प्रतीयन्ते,
॥१७७॥ १ नावतिष्ठति-मु.॥ २ काठिन्यादि स्व० मु.॥