SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सारा १४८ द्वारे सम्यक्त्वमेदाः ६७ गाथा सटीके द्वितीयः ॥१७६॥ योगः, कान्तारम्-अरण्यं तत्र वृत्तिः-वर्तनं निर्वाहः कान्तारवृत्तिः, यद्वा कान्तारमपि बाधाहेतुत्वादिह बाधास्वेन विवक्षितम् , ततः कान्तारेण-बाधया वृत्तिः-प्राणवर्तनरूपा कान्तारवृत्तिः, कण्टेन निर्वाह इतियावत् । गुरवो-मातृ-पितृप्रभृतयः । यदुक्तं'माता पिता कलाचार्य,एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतो मतः॥१॥[योगविन्दुःगा.११०] तेषां निग्रहो-निर्वन्धः, तदेताः षट् छिण्डिका-अपवादा जिनशासने भवन्ति । इदमत्र तात्पर्यम्-प्रतिपन्नसम्यक्त्वस्य परतीर्थिकवन्दनादिकं यत्प्रतिषिद्धं तद्राजाभियोगादिभिरेतैः षभिः कारणैर्भक्तिवियुक्तो' द्रव्यत: समाचरम्नपि सम्यक्त्वं नातिचरतीति ॥१३॥ 'छम्भावणभावियं' ति व्याख्यातुमाह-'मूलं दार' मित्यादि श्लोकः, द्विषट्कस्यापि-द्वादशभेदस्यापि पश्चाणुव्रत-त्रिगुणव्रत-चतुःशिक्षाव्रतरूपस्य चारित्रविषयस्य इदं सम्यक्त्वं मूलमिव मूलं कारणमित्यर्थः परिकीर्तितं-कथितम् , तीर्थकरादिभिरिति सर्वत्र सम्बन्धः । यथा हि मूलविरहितः पादपः प्रचण्डपवनप्रकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सुदृढसम्यक्त्वमूलविहीनः कुतीर्थिकमतमारुतान्दोलितः स्थैर्य नासादयेदिति । 'दारं ति द्वारभित्र द्वारं प्रवेशमुखमिति भावः । यथा हि अकृतद्वारं नगरं 'सन्ततः प्राकारवलयवेष्टितमप्यनगरमेव भवति अनप्रवेशनिर्गमाभावात् , एवं धर्ममहापुरमपि सम्य१ कलाचार्या-मु. । योगबिन्दौ.धर्मस. वृत्तावपि कलाचार्य-इति ।। २ ०क्तं-मु. । धर्मसं. वृत्तावपि ०क्तो इति पाठः ।। ३.०इलोक:-मु. नास्ति ॥४ चारित्रधर्मस्य-मु.। धर्मस्य-सं. धर्म सं. वृत्तावपि चारित्रविषयस्य-इति पाठः ॥ ५ मूलमिव-मु. नास्ति ।। ६ समन्ततः-मु.॥ प्र. आ. २७८ ॥१७६।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy