SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः खण्ड: ॥१७॥ परिहारः, एष दशस्थानविषयत्वादशविधो दर्शनविनयः । सम्यक्त्वे सति अस्य भावात्सम्यक्त्वविनयः 'समासेन' सङ्क्षेपेण द्रष्टव्यः, विस्तरतस्तु शास्त्रान्तरादवसेय इति ॥ १३१ ॥ 'तिसुडि' ति व्याचिख्यासुराह - 'मोत्तूणे' त्यादि, 'मुक्त्वा' विमुच्य 'जिन' वीतरागं मुक्त्वा च 'जिनसतं' स्यात्पदलाञ्छिततया तीर्थकृद्भिः प्रणीतं यथावस्थितं जीवाजीवादितत्वं तथा जिनमतस्थितथि - प्रतिपन्न पारमेश्वरप्रवचनान् साध्वादीन् मुक्त्वा शेषमेकान्तग्रहग्रस्तं 'जगदपिचिन्त्यमानंपरिभाव्यमानं 'संसार' कत्तवारं' ति संसारमध्ये कचवरनिकरप्रायमसारमित्यर्थः । जिनादित्रितयमेव सारं शेषं तु सर्वमप्यसारमिति चिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुद्धय इति ॥ १३२ ॥ 'पंचगयदोर्स'ति प्रकटयन्नाह - 'संके' त्यादि, शङ्का सर्वोक्तवचसि संशयः, काङ्क्षा-अन्यान्यदर्शनाभिलाषः, विचिकित्सा - सदाचारसाध्वादिनिन्दा, तथा कुत्सितं लिङ्ग-दर्शनं येषां ते कुलिङ्गिन:कुतीर्थिकाः तेषु विषये प्रशंसा - श्लाघा, तथा तद्विषय एव संस्तवः सम्भाषणादिना परिचयः, एते पञ्चापि शङ्कादयः सम्यक्त्वस्य मालिन्यहेतुत्वादती चारा - दोषाः सम्यग्दृष्टिना प्रयत्नेन परिहर्तव्यावर्जनीयाः, विशेषतस्त्येतेषां स्वरूपं षष्ठे श्रावकप्रतिक्रमणातिचारद्वारे प्रतिपादितमिति ॥ ९३३॥ 'अभावण" विवरीपुराह - 'पावयणी' त्यादि, प्रवचनं द्वादशाङ्ग तदस्यास्त्यतिशयवदिति * प्रवचनी - युगप्रधानागमः । धर्मकथा प्रशस्याऽस्यास्तीति धर्मकथी यः क्षीराश्रवादिलब्धिसम्पन्नः सजलजल १ जगच्चिन्त्य • मु. । धर्म सं वृत्तावपि जगदपि इति पाठः ॥ २ कच्चवारं मु. ॥। ३० स खं. सं. | सु-सि ॥ ४ णं मु. ॥ ५ प्रा० सु. धर्म. सं. वृत्ती च ॥ १४८ द्वारे सम्यक्त्व ६७ भेदाः गाथा ९२६ ९४१ प्र. आ. २७६ ।।१७१ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy