________________
। प्रवचन
Ram
सारोद्धारे। । सटीक
१४८ द्वारे सम्यक्त्र
गाथा
॥१७०|
क्रमेण, अत्र पाव्ययीभावसमासादपि तृतीयाया अलोपः प्राकृतत्वात् । वैयावृत्ये-तत्प्रतिपत्ति-विश्रामणाऽभ्यर्चनादौ नियमः-अवश्यकर्तव्यतयाऽङ्गीकारः, स च सम्यक्त्वे सति भवतीत्येतानि सम्यग्दृष्टेः-धर्मधर्मिणो. रभेदोपचारात् सम्यक्त्वस्य लिङ्गानि । एतैः शुश्रूषादिभिस्त्रिभिलिङ्गः सम्यक्त्वमुत्पन्नमस्तीति निश्चीयत इति भावः । यद्यपि च शुश्रुषादय उपशान्तमोहादीनां साक्षान्न भवन्ति कृतकृत्यत्वा तथापि फलतो भवन्ति तद्भावस्य तत्फलत्वादिति ।।९२९॥
'दसविणय' ति व्याख्यानयनाह- "अरिहंत' गाहा, 'भत्ती' गाहा, अर्हन्तः-तीर्थकराः, सिद्धाः-क्षीणाष्टकर्ममलपटलाः, चैत्यानि- जिनेन्द्रप्रतिमाः, श्रुतम्-आचाराद्यागमः, धर्म:-क्षान्त्यादिरूपः, साधुवर्गः-श्रमणसमूहः, आचार्योपाध्यायो-प्रतीतो, प्रवक्ति जीवादितचमिति प्रवचन-सङ्घः, दर्शनंसम्यक्त्वं तदभेदोपचारात्तद्वानयि दर्शनमुच्यते, एवं प्रागपि यथासम्भवं वाच्यम् । .. एतेषु अहंदादिषु दशमु स्थानेषु विषये किमित्याह- "भत्तो' त्यादि, भक्तिः अभिमुखगमनाऽऽसनप्रदान-पयुपास्त्यञ्जलिबन्धानुजनादिलक्षणा पूजा-गन्धमाल्य-वस्त्र-पात्रा-उन्न-पानप्रदानादिसत्काररूपा, वर्णन 'वर्ण:-लाधनम् , तेन ज्वलन-ज्ञानादिगुणोद्धासनं वर्णज्वलनम् , तथा वर्जन-परिहरणमवर्णबादस्य-अश्लाघायाः, आशातना-मनोवाककायैः प्रतीपवर्तनम् , तस्याः परिहार:-प्रतिषेधः आशातना१ मरिहते त्यादिगाथाय-खं. ॥ २ जैनेन्द्र० मु.॥ ३ विषयेषु-मु. ॥ ४ तुलना-"वर्णः प्रशंसा, तजननमुद्भासनम्" इति धर्मसं वृत्ती।
प्र. आ. २७६
dance
॥१७॥
295
more
10