________________
. प्रवचन
सारोद्धारे
|१४८ द्वारे सम्यक्त्वभेदाः ६७ गाथा ९२६
द्वितीयः
९४१
॥१६८॥
भङ्गभयाच्च क्तान्तस्य परनिपातः, अष्टप्रभावनम्-अष्टविधप्रभावनापरिगतम् 'भूसणलपरखणपंचविहसंजुत्तं ति पञ्चविधेन भूषणेन पत्रविधेन 'लक्षणेन च संयुक्तम् , अत्रापि पञ्चविधशब्दस्य परनिपातस्तथैव । तथा षडविधा' यतना-ऽऽकारोच यस्य तत् पड़विधयतनाकारम् , षडभियतनाभिः पर्भिधाकार, परिकलितमित्यर्थः । षड्भावनाभावित-पड्भिर्भावनाभिर्निरन्तरं परिशीलितम् , षट्स्थान-स्थानषट्कयुक्तम् , इत्येवं सप्तपष्टया 'लक्षणभेदैः' लक्ष्यते-निश्चीयते सम्यक्त्त्रमेभिरिति लसणानि-श्रद्धानादीनि, तेषां भेदा:-प्रकाराः परमार्थसंस्तवादयस्तै विशुद्धं चस्यैवकारार्थत्वादेतैः सप्तषष्टया लक्षणभेदै विशुद्धमेव परमार्थतः सम्यक्त्वं भवति । सम्यक्शब्दः प्रशंसार्थोऽविरोधार्थो वा, सम्यग्-जीवस्तस्य भावः सम्यक्त्वम् , प्रशस्तो मोक्षाविरोधी वा जीवस्य स्वभावविशेष इतियावत् ॥९२७॥
अथैतानेव लक्षणभेदान् प्रत्येकं प्रतिपिपादयिषुः प्रथम 'चउसहहणं' ति व्याख्यातुमाह-- 'परमे' त्यादि, परमाश्च-ताविकाच तेऽर्थाश्व-जीवा-ऽजीवादयस्ते परमार्थास्तेषु संस्तवः-परिचयस्तात्पर्येण बहुमानपुरस्परं जीवादिपदार्थाव गमायाभ्यास इतियावत् , वाशब्द उत्तरापेक्षया समुच्चये इति प्रथम श्रद्धानम् , तथा सुष्टु-मम्यग्नीत्या दृष्टा-उपलब्धाः परमार्था-जीवादयो यस्ते सुदृष्टपरमार्था:-आचार्यादयस्तेषां सेवनं पयुपास्तिः सुदृष्टपरमार्थ सेवनम् , स्त्रीत्वं प्राकृतत्वात् वाशब्दोऽनुक्तसमुच्चये, ततो यथाशक्ति *तद्वैयावृत्यप्रवृत्तिश्च, अपि समुच्चये, इति द्वितीयं श्रद्धानम् । तथा 'चावन्नकुदसण' ति, दर्शनशब्दः
११ लक्षणेन संयुक्तं मु.॥२ धौ यतनाकारौ यस्य-मुः।। ३ दयस्तेषु-मु.। तुला-प्रज्ञापनावृत्तिः प. ६०॥ ४ गमाभ्यास मु.।। ५ वैयावृत्तिप्र० मु.॥
प्र. आ. २७५
।